पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
24
[अयोध्याकाण्डः
दशरथाक्रन्दः


हा राम ! रामानुज हा !! हा वैदेहि तपस्विनि !!!
न मां जानीत दुःखेन म्रियमाणमनाथवत् ॥ २६ ॥
स राजा तेन दुःखेन [१] भृशमर्पित चेतनः ।
अवगाढः सुदुष्पारं शोकसागरमब्रवीत् ॥ २७ ॥

 स राजा तेन दुःखेन भृशमर्पितचेतनः, अत एव गाढमग्नः सन् दुष्पारं शोकसागरं अब्रवीत् -- इति कविवाक्यम् ॥ २७ ॥

रामशोकमहा[२]ऽभोगः सीताविरहपारगः ।
श्वसितोर्मिमहाऽऽवर्तः [३] बाष्पफेनजलाविलः ॥ २८ ॥
बाहुविक्षेपमीनौघः विक्रन्दितमहास्वनः
प्रकीर्णकेशशैवालः कैकेयीवडवामुखः ।। २९ ।।
ममाश्रुवेगप्रभवः कुब्जावाक्यमहाग्रहः ।
[४] वरवेलो नृशंसायाः + रामप्रव्राजनायतः ॥ ३० ॥
[५][६]यस्मिन् बत निमग्नोऽहं, कौसल्ये ! राघवं विना ।
दुस्तरो जीवता, देवि ! मयाऽयं शोकसागरः ॥ ३१ ॥

 अथ किमब्रवीदित्यतः —रामशोकेत्यादि । शोकरूपः महान् आभोगः- वैपुल्यं यस्य स तथा । सीताविरहरूपं पारं गच्छतीति


  1. अर्पितचेतनः-गतचेतनः-ति दुःखेन भृशं अर्पिता, व्याप्ता चेतना यस्य सः
    इति वा ।
  2. वेगः-च.
  3. बाष्पवेग-च.
  4. नृशंसाया यो वरः स एव वेला–' अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि ।
  5. रामप्रव्राजनमेव आयतं-आयामः-दैर्ध्यं यस्य स तथा- गो.
  6. तस्मिन्-ङ.