पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

468 पादुकापट्टाभिषेक: नन्दिग्रामं गमिष्यामि सर्वानामन्त्रयेऽत्र वः । तत्र दुःखमिदं सर्वं सहिष्ये * राघवं विना || २ || [ अयोध्याकाण्ड: अत्र - अयोध्यायाम्। सर्वमिदं दुःखमिति । पितृवियोग- रामवियोगादिजदुःखमित्यर्थः ॥ २ ॥ गतबाही दिवं राजा वनस्थः स गुरुर्मम । रामं प्रतीक्षे राज्याय स हि राजा महायशाः ॥ ३ ॥ तदेव प्रकाश्यते गतश्चेत्यादि ॥ ३ ॥ एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः । अब्रुवन्मन्त्रिणः सर्वे वसिष्ठश्च पुरोहितः ॥ ४ ॥ + सुभृशं श्लाघनीयं च यदुक्तं, भरत ! त्वया । वचनं भ्रातृवात्सल्यात् अनुरूपं तवैव तत् ।। ५ ।। नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौदे । मार्गमार्य प्रपन्नस्य नानुमन्येत कः पुमान् ।। ६ ।। बन्धुळुञ्धस्थेति बन्धु जनपरिपालनाधिकस्पृहावत इत्यर्थः । नानुमन्येतेति। त्वद्वचनमिति शेषः ॥ ६ ॥ 1 मन्त्रिणां वचनं श्रुत्वा + यथाऽभिलपितं प्रियम् । अब्रवीत् सारथिं वाक्यं रथो मे युज्यतामिति ॥७॥ यथाऽभिलषितं – स्वाभिलषितमनतिक्रम्य प्रवृत्तम् ॥ ७ ॥ सदृश मिति

  • राघवं विना - रामवियोगेन यदुःखं तत् सहिष्य इत्यर्थः

पाठे कुलस्य सदृशमित्यर्थ:- गो. यथाऽभिलषितं, अत एव प्रियम् अत एव प्रहृष्टवदन: (अनन्तरलोके) । सदृशं - ङ..