पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पादुके स्थाप्य राज्ये सः तद्शोऽभूत् धृतवतः प्रहृष्ट' वदनः सर्वाः मातृ समभिभाष्य च । FORENS आरुरोह रथं ' श्रीमान् शत्रुघ्नेन समन्वितः || ८ || आरुह्य तु रथं ' क्षिप्रं शत्रुघ्नभरतावुभौ । ययतुः परमप्रीतौ वृतौ मन्त्रिपुरोहितैः ॥ ९ ॥ अग्रतो गुरवः सर्वे वसिष्ठप्रमुखाः द्विजाः । प्रययुः प्राङ्मुखाः सर्वे **नन्दिग्रामो यतो भवेत् ॥ १० ॥ ११५ वर्ग:] नन्दिग्रामो यतो भवेदिति । येन मार्गेण प्राप्तो भवेत् तेन प्रययुरित्यर्थः ॥ १० ॥ " बलं च तदनाहूतं गजाश्वरथसङ्कुलम् । प्रययौ भरते याते सर्वे च पुरवासिनः ॥ ११ ॥ तदनाहूतमिति । तेन भरतेनाकृताह्वानमपि स्नेहवशादिति शेषः ॥ ११ ॥ रथस्थः स तु धर्मात्मा भरतो भ्रातृवत्सलः । नन्दिग्रामं ययौ तूर्ण शिरस्यादाय पादुके ।। १२ । भरतस्तु ततः क्षिप्रं नन्दिग्रामं प्रविश्य सः । अवतीर्य रथात्तूर्णं गुरूनिदमभाषत ।। १३ ।। एतद्राज्यं मम भ्रात्रा दत्तं सन्नयास 'वत् स्वयम् । + योगक्षेमवहे ' चेमे पादुके हेमभूषिते ।। १४ ।।

  • प्राङ्मुखगमने उद्देशमाह - नन्दिग्रामो यतो भवेदिति ।

- 469 + निक्षेपवत् दत्तस्य राज्यस्य रक्षणादिस्वातन्त्र्यमपि नास्तीति दर्शयति-योगक्षेमवहे चेति - गो. मनसः - ङ. तलं व यथाभूतं-ड.. 3 शीघ्रं- ङ. मुत्तमम् 3 5 शीर्ष, दीप्तं-ङ, नन्दिग्रामं समन्ततः - ङ.. च. तस्य-ड. 4