पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११५ सर्ग:] तत्रोषितुमनिच्छन् स: नन्दिग्रामं ययौ तत:. तदा तदन्तःपुरमुज्झितप्रभं

  • सुरैरिवोत्कृष्टमभास्करं दिनम् ।

निरीक्ष्य सर्वत्र + ' विभक्तमात्मवान् मुमोच बाष्पं भरतः सुदुःखितः ॥ २९ ॥ इत्याषें श्रीमद्रामायणे वास्मीकीये अयोध्याकाण्डे चतुर्दशोत्तरशततमः सर्गः सुरैः उत्कृष्टं अभास्कर दिनमिति । रामादिभिस्त्यक्तायाः विनष्टराजकाया अयोध्याया अभूतोपमेयम्, न हि किल मण्डलस्य पातः समस्ति । घरा (२९) मानः सर्गः ॥ २९ ॥ इति श्रीमद्रामायणामृतऋतकटीकायां अयोध्याकाण्डे चतुर्दशोत्तरशततमः सर्गः पञ्चदशोत्तरशततमः सर्गः [पादुकापट्टाभिषेकः] 467 ततो निक्षिप्य मातृस्ता: अयोध्यायां दृढव्रतः । भरतः शोकसन्तप्तः गुरूनिदमथाब्रवीत् ॥ १ ॥ अथ भरतस्य तत्रैव मातृस्थापनानन्तरं नन्दिग्रामे राज्य- परिपालनम् । ततो निक्षिप्येत्यादि ॥ १ ॥

  • सुरै: उत्सृष्टं अभास्करं दिनभिव उज्झितप्रभ अन्तःपुरं निरीक्ष्येति सम्बन्धः ।

विविक्तं – विजनम् । पुरा किल देवासुरयुद्धे असुरैः देवाः पराजिताः, स्वर्भानुना च भानुः पातितः । तदानीं कियान् कालो दिवारात्रि विभागर हितोऽभूत् । ततः परं ब्रह्मनियोगात् अत्रिः स्वतेजसा सप्तरात्रं सूर्याधिपत्यं चकारेति पौराणिकी कथा । अग्निः स्वतेजसेति पाठान्तरम्-गो. + विभक्तं – विगतसंस्कारं-ति. 1 त्सृष्ट-ङ. 2 विविक ङ. 30*