पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ सगैः ] देवर्षयोऽपि च तदा समोत्तम नुमेनिरे रामवचोप्राह्यत्वे हेतुमाहुः -- सदाऽऽनृणमित्यादि । इमं रामं वितुस्सदाऽऽनृणं- - अनृणस्य भावः -- आनृणम्, सत्- समीचीना- नुष्ठित – अप्रतिनिधितयाऽनुष्ठेितं आनृणं - अनृणत्वं यस्य स तथा, तथैवेच्छामहे, तथाविधादेव के केय्या अनृणत्वात् । • दशरथोऽद्य स्वर्ग गतः । आनृण्यस्य रामेाकरण, उपाधिकरणे च स्वर्गात् अंश एवेति शेषः ॥ ६ ॥ एतावदुक्ता वचनं गन्धर्वाः समहर्षयः । राजर्षयश्चैव तथासर्वे स्वां स्वां गतिं गताः ॥ ७ ॥ ह्लादितस्तेन वाक्येन शुभेन शुभदर्शनः । 1 रामः संहृष्टवदनः तानृपीनभ्यपूजयत् * ।। ८ ।। तानभ्यपूजयत् - सम्यगनुगृहीतवन्तः अस्मदुपकाराय भगवन्तो देवा इत्युक्तवानित्यर्थः ॥ ८ ॥ 449 + त्रस्तगात्रस्तु भरतः स वाचा सज्जमानया । कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत् ।। ९ ।। त्रस्तगात्रस्त्विति । दैवतानां रामवनवासस्य पितुरानृण्यार्थ इष्टत्वे, मया मोहात् प्रत्युपवेशनान्तो रामोपरोधः कृत इति भीत्या कम्पितगात्रः, अत एव - सज्जमानयेत्यादि ।। ९ ।।

  1. राजधर्म'मथ प्रेक्ष्य 'कालधर्मांश्च संततम् ।

कर्तुमर्हसि, काकुत्स्थ ! मम मातुश्च याचनाम् ॥ १० ॥

  • स्वपक्षसँरक्षणादिति भावः । + स्वमनोरथस्य सर्वथाऽसिद्धत्वात् शिथिलगात्रत्वं

(पाठान्तरे), सज्ज मानवाक्क्तू च-गो. + राजधर्म - राज्यपरिपालनधर्म, कुल- (पाठान्तरे ) धर्मानुसन्तति – ज्येष्ठाभिषेक रूपकुलधर्मस्यानुस्यूत - गो. 1 शुशुभेच. 2 स्रस्त- ङ. RAMAYANA---VOL. III 3 मनु- ङ. कुलधर्मानुसंतर्ति - ङ. 29