पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

450 पादुकाइम् राजधनें-- अश्रेष्ठस्य राज्यामित्येवंरूपम् । अथ – अथवा । कालधर्मान् - कालघर्मकृतरक्षण शक्ति तदभावलक्षणांश्च विचार्य मम मातुः कौसल्यायाश्च याचनां कर्तुमर्हसि ।। १० ।। [ अयोध्याकाण्ड : प्रक्ष्य वक्ष्यमाणलक्षणां रक्षितुं सुमहद्राज्यं अहमेकस्तु नोत्सहे । पौरजानपदांश्चापि अथकालस्वभावकृत स्वस्य रक्षणाऽशक्ति दर्शयति – रक्षितु- मित्यादि । एकः – असहायः । तथा नोत्सह इत्यनुकर्षः ॥ ११ ॥ रक्तान् रञ्जयितुं तथा ॥ ११ ॥ ज्ञातयश्चापि 'योधाश्च मित्राणि सुहृद्ध नः । त्वामेव हि प्रतीक्षन्ते पर्जन्यमिव कर्पकाः ॥ १२ ॥ इदं राज्यं, महाप्राज्ञ ! 2 स्थापय प्रतिग्द्य हि । 3 शक्तिमानसि, काकुत्स्थ ! लोकस्य परिपालने ॥ १३ ॥ हि — यस्मात् त्वामेव प्रतीक्षन्ते, अत इदं राज्यं प्रतिपद्य - स्वीकृत्य स्वीयमेव राज्यं पश्चान्मया रक्षणीयत्वेन स्थापय । स्वीकार- म.त्रे | लोकस्य परिपालने शक्तिमानसि, रामस्य राज्यमित्येतावन्मात्रं लोकस्य परिपालनेऽपेक्षितम् । १२-१३ ॥ 4 इत्युक्तेति - गो. + इत्युक्ता न्यपतत् भ्रातुः पादयोः भरतस्तदा । भृशं संप्रार्थयामास राममेव प्रियंवदः ।। १४ ।। इत्युक्ता— एवं प्रार्थनां कृत्वा ॥ १४ ॥ -

  • अतः इदं राज्यं प्रतिपद्य - स्वीकृत्य कस्मिंश्चित्स्थापय । हि — यतः सः

त्वद्दत्तराज्य: लोकपालने शक्तिमान् भवति । 'शक्तिमानसि' इति पाठे अयं मदीय इति स्वीकारमात्रेण लोकस्य समस्तस्य पालने शक्तिमानसि-ति + एवं खबुद्धिशक्तयु- पन्यस्तोपायान्तरवैफल्यदर्शनेन गत्यन्तराभावात् भरतो राममेव प्रपद्यत इत्याह - + पौराश्च - ङ. पालय - ङ. शक्तिमान् स हि-च. राघवेऽतिप्रियं वदन्-च. 3