पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जाबालिवचननिराकरणम् [अयोध्याकाण्ड: - प्रथमतः स्वयमहं कामवृत्तः - यथेष्टचारित्रं संपत्स्ये, अनन्तरं कृत्स्नोऽप्ययं लोकः कामवृत्तः समुपवर्तते - वर्तेतेति यावत् । कुत एवं निर्बन्ध इत्यतः-- यद्वत्ता इत्यादि ॥ ९ ॥ 420 सत्यमेवानृशंसं च राजवृत्तं सनातनम् । तस्मात् सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः ॥ १० ॥ यदेवं स्वपरनाशहेतुः त्वदुपदिष्टमार्गः, तस्मादिमं पृष्ठीकृत्य म ' तस्मात् शस्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्र- विधानोक्तं कर्म कर्तुमिहाईसि' इत्युपदेशावलम्बनेन शास्त्रीयं सत्यमेव मार्गमेवावस्थापय इत्याह -- सत्यमेवेत्यादि । सनातनं- अनादिशास्त्र- सिद्धम् । यस्मात् राज्ञां वृत्तं सत्यात्मकं, तस्मात् तेषां राज्यमपि सत्यात्मकं -- स -सत्यैकप्रतिष्ठमित्यर्थः । न केवलं राज्यमात्रमेवं, अपि तु सर्वोऽपि लोकः सत्ये प्रतिष्ठितः ॥ १० ॥

ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे । सत्यवादी हि लोकेऽस्मिन् परमं गच्छति क्षयम् ।। ११ ।। सत्यमेव हि मेनिर इति । सत्यलोकान्त सकललोक विजयार्थ- परमं क्षयं – ब्रह्मलोक मिति मिति शेषः । क्षयः - निवासः । यावत् ।। ११ ।। उद्विजन्ते + यथा सर्पात् नरादनृतवादिनः । धर्म: 2 सत्यपरो लोके मूलं सर्वस्य चोच्यते ॥ १२ ॥ सत्यं परं श्रेष्ठं रूपं यस्य धर्मस्य स तथा ॥ १२ ॥

  • अनृशंस -- भूतानुकम्पाप्रधानं- गो.

+ यथा सर्वात्-सर्पादिव । 1 परं गच्छति चा-ङ, 2 सत्यं - ङ. + मेनिरे — उत्कृष्ट मिति शेषः- गो. 3 स्वर्गस्य कु.