पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०९ सर्ग: ] धर्म: सत्यपरो लोके मूलं सर्वस्य चोच्यते सत्यमेवेश्वरो* लोके 'सत्ये 2 पद्मा सदाऽऽ'श्रिता । सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ॥ १३ ॥ ईश्वर इति । आश्रित इति विपरिणामः । राजलक्ष्मीः । पदं - शाश्वतपदप्रतिष्ठासाघनमित्यर्थः ।। १३.।। पद्मा- दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च । वेदाः सत्यप्रतिष्ठानाः तस्मात् सत्यपरो भवेत् ॥ १४ ।। सत्यं प्रतिष्ठानं-- आधारः येषां ते तथा । सत्यतत्पर इत्यर्थः ॥ १४ ।। सत्यपरः -- || एकः पालयते लोकं एकः पालयते कुलम् । मञ्जत्येको हि निरये एकः स्वर्गे महीयते ।। १५ ।। 4 अथ न केवलमागममात्रात् सत्यपरत्वमेव, अपि तु अनुभवा- दपीत्याह -- एक इत्यादि । एकः पुमान् कृत्स्नं लोकं पालयते । एकस्तु स्वीयं कुलमात्रं पालयते । एतेन पालनसाधनधर्मस्य इह लोके तारतम्यानुभव उक्तः । अथ परलोके तदन्वयव्यतिरेक साध्य- फलप्रदर्शनं--मज्जतीत्यादि । निरयस्वर्गौ दुःखसुखार्थाश्रयौ ॥ १५ ॥ 421 सोऽहं पितु निंदेशं तु किमर्थं नानुपालये। सत्यप्रतिश्रवः सत्यं सत्येन समयी कृतम् ॥ १६ ॥ + नैव लोभान्न मोहाद्वा न चाज्ञानात्तमोऽन्वितः । सेतुं सत्यस्य मेत्स्यामि गुरोः सत्यप्रतिश्रवः ॥ १७ ॥

  • ईश्वरः - नियन्ता-व्यवस्थापक इति यावत् - गो. +लोभात्- राज्यलोभात्

मोहात्-विप्रलंभवाक्यजनित चित्तविभ्रमात्- गो. 2 धर्मः-च. श्रितः - ङ, नरके-इ. सत्यं - ङ. 5 नियोगं - ङ. कृत:-ङ.