पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८ सर्गः ]
15
लक्ष्मणस्तु न सम्मेने रामप्रव्राजनं स्विदम्


इति पूर्ववाक्ये राज्ञः प्रकृतत्वात् राजानं प्रति मातृरक्षणवचनमिदं, उचितं च । अथ पूर्ववाक्येऽपि भरतस्यैव प्रस्तुततया व्याख्याने - इदमपि तं प्रत्येव वचनम् । भरतप्रस्तावतया व्याख्या तु– हे कुमार ! त्वं तस्यैव-त्वद्यौवराज्यप्रदस्य राज्ञ एवं राज्ये आज्ञाप्रवर्तनात् जीव, यावत्पितृशरीरमिति। अत्र तु — ते मातेव मम माता द्रष्टव्येति योजना । अर्थद्वयमप्यविरुद्धम् ॥ २२ ॥

इत्येवं मां, महाराज ! ब्रुवन्नेव महायशाः ।
रामो राजीवताम्राक्षः भृशमक्षूण्यवर्तयत् ॥ २३ ॥
[१]लक्ष्मणस्तु सुसंक्रुद्धः निश्वसन् वाक्यमब्रवीत् ।
केनायमपराधेन राजपुत्रो विवासितः ॥ २४ ॥
[२] राज्ञा तु खलु कैकेय्या [३]लघु त्वाश्रित्य शासनम् ।
कृतं कार्यमकार्य वा वयं येनाभिपीडिताः ।। २५ ।।

 लघु शासनमिति । सुनिरासमिति यावत् । तदाश्रित्य यत् कृतं, तत् कार्यं कर्तुं योग्यं अयोग्यं वा भवतु, वयं पीडिता इत्यत्र न सन्देहः किल । ततो वयं येन पीडिताः तस्मिन् पितृत्वं नोपलक्षये इत्यग्रेण सम्बन्धः ॥ २५ ॥


  1. पूर्वं सुमन्त्रप्रतिनिवर्तने एवं लक्ष्मणवाक्याभावेऽपि अनेनैव तत् ऊह्यम् ।
  2. येन विवासनेन वयमभिपीडिताः, तद्विवासनं अकार्यं तु-अकार्यमेव । राज्ञा तु
    कैकेय्या: लघु शासनमाश्रित्य कार्यं वा कार्यमिव कृतं खलु । यद्वा लघु-तुच्छं
    कैकेय्याश्शासनमाश्रित्य अकार्यमेव कार्यं कृतम्-गो.
  3. सत्यमाश्रित्य - ङ.