पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
16
[अयोध्याकाण्ड:
रामसन्देशनिवेदनम्


यदि प्रव्राजितो रामः [१] लोभकारण[२] कारितः ।
[३] वरदाननिमित्तं वा सर्वथा दुष्कृतं कृतम् ॥ २६ ॥

 ननु कथमकृत्यशङ्का ? राजकृतकार्यस्य सत्यपरिपालनमूलकत्वादित्याशंक्याह-यदीत्यादि । लोभकारणत्वेन कारितः- अङ्गीकृतः । वरदाननिमित्तं प्रव्राजित इति यद्युच्यते; तथाऽपि सर्वथा दुष्कृतमेव कृतम् इदमनुचितमेव, तद्व्यतिरिक्तमेव वरयेति सुववत्वात् । पतित्वेन भार्याशिक्षणे समग्राधिकारात् । अस्य प्रसङ्गस्य राज्यविषयकत्वेन मन्त्रिपुरोहिताद्यनुरोधेन कर्तव्यत्वान्न मयैकेनायमर्थः शक्यानुष्ठान इति सुवचत्वाच्च । अत्राप्येकमर्धं प्रक्षिप्य व्याकरोत् [४] ॥ २६ ॥

रामस्य तु परित्यागे न हेतुमुपलक्षये ॥ २७ ॥
असमीक्ष्य समारब्धं केवलं बुद्धिलाघवात् ।
जनयिष्यति [५]सङ्क्रोशं राघवस्य विवासनम् ॥ २८ ॥

 यदेवं, अतः -रामस्य परित्यागे उक्तहेतुं च हेतुत्वेन नोपलक्षये। हेत्वाभासमेव पश्यामि । तस्मात् केवलं बुद्धिलाघवात् असमीक्ष्य-


  1. राम: प्रव्राजित इति यत्, एतत् लोभकारणकारितं वरदाननिमित्तं वा – कैकेय्या:
    प्रतिश्रुतवरदाननिमित्तं वा, सर्वथा दुष्कृतं कृतं; वरदानसमये वरद्वयस्य भरताभिषेक-रामनिष्कासनरूपेण विनियोगाभावात् ।
    लोभकारणनिमित्तमिति क्रियाविशेषणम्- गो.
  2. कारितम्-सर्वत्र.
  3. एतदनन्तरं 'इदं तावद्यथाकामं ईश्वरस्य कृते ( कृतौ) कृतम्' इत्यधिकम्-ङ. च.
  4. गोविन्दराजः । अर्धं तु अधस्ताद्दत्तम् । तच्चैवं व्याख्यातम् -रामपरित्यागहेतुं नोपलक्षये, किन्तु ईश्वरस्य कृते--स्वतन्त्रव्यापारे स्थितेन राज्ञेति शेषः, इदं रामप्रव्राजनं यथाकामं तावत्-यथेच्छमेव कृतम् । यद्वा इदं रामविवासनं ईश्वरस्य कृते-ईश्वरप्रयोजनाय यथाकामं कृतं- केवलमीश्वरप्रेरणेन शास्त्रमनवेक्ष्य कृतम्। (ईश्वरस्य कृते-- ईश्वरत्वाद्धेतोः इति वा) ।
  5. संक्रोशः - आक्रोशो वा ।