पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
14
[ अयोध्याकाण्ड:
रामसन्देशनिवेदनम्


[१] [२] भरतः कुशलं वाच्यः वाच्यो मद्वचनेन च ।
कुमारराज्ये जीव त्वं तस्यैवा[३]ज्ञाप्रवर्तनात् ॥ २१ ॥

 भरतो मद्वचनेन कुशलं वाच्यः, राजा च मद्वचनात् वाच्यः । किमिति ?--हे राजन् ! राज्यस्य भरताय दत्तत्वात् त्वया कुमारराज्ये- भरतरराज्ये त्वं तस्यैवाज्ञाप्रवर्तनात् - तदनुग्रहाय तस्यैवाज्ञां प्रवर्तयन् तद्धेतोरेव जीव । एवं पाङ्क्तं पाठं पश्यामः । अत्र [४] श्लोकत्रयं प्रक्षिप्तं अपरो [५] व्याकरोत् ॥ २१ ॥


अब्रवीच्चापि मां भूयः भृशमश्रूणि वर्तयन् ।
[६] मातेव मम माता ते द्रष्टव्या पुत्र[७]कर्शिनी ॥ २२ ॥

 अब्रवीदित्यादि । भूयः पुनश्च भृशमश्रूणि वर्तयन् अब्रवीत्, किमिति–ते द्रष्टव्येति । ’कृत्यानां कर्तरि वा' इति षष्ठी, हे राजन् ! त्वया पुत्रकर्शिनी मम माता मातेव-राज्ञो भरतस्य मातेव द्रष्टव्या राज्यहीनाऽपि । अत्र 'कुमारराज्ये जीव त्वं '


  1. भरत: कुशलं वाच्यः, त्वयेति शेषः। वाच्यो मद्वचनेन च, मयोक्तमित्यपि वाच्य
    इत्यर्थः । यद्वा भरतो मद्वचनेन कुशलं वाच्यः । सर्वास्वेव मातृषु यथान्यायं
    वर्तस्वेति च वाच्यः इति द्वितीयवाच्यपदान्वय: - गो.
  2. एतदनन्तरं 'सर्वास्वेव यथान्यायं वृत्तिं वर्तस्व मातृषु । वक्तव्यश्च महाबाहुः इक्ष्वाकुकुलनन्दनः ॥ पितरं यौवराज्यस्थ: राज्यस्थमनुपालय । अतिक्रान्तवया राजा मा स्मैनं व्यवरोरुधः ॥ 'इत्यधिकं - ङ.
  3. ज्ञां प्रवर्तयन्-ङ. च.
  4. अत्र श्लोकद्वयमिति स्यात् । तौ च श्लोकावधस्तात् दत्तौ । तत्र - महाबाहुः - भरत: त्वं यौवराज्यस्थ: सन् राज्यस्थं पितरमनुपालय । वृद्धं एनं राजानं न हिंस्याः । कुमारराज्ये - यौवराज्य एव स्थित्वा दशरथस्य आज्ञामेव प्रवर्तयन् जीव इत्यर्थः । यद्यपि कौसल्यायै भरते राजवद्वृक्तिरुपदिष्टा । परन्तु सैव वास्तवोक्तिः, इयं तु भरताय हितोपदेशः । अत एव 'वक्तव्यश्च' इति विच्छित्ति: कृता ॥
  5. गोविन्दराज:, तीर्थो वा ।
  6. ते मातेव मम माता - इति वाऽन्वयः । सुमन्त्रं प्रतीयमुक्ति: । भरताय वा ।
  7. गर्धिनी- ङ. च.