पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८ सर्ग:]
13
राजन् ? ववन्दे रामस्ते पादौ, मातृगणस्य च


 माता च विशिष्य कौसल्या कुशलादिकमभिवक्तव्या । इदं च-वक्ष्यमाणं एनां विशिष्य प्रब्रूयाः ॥ १७ ॥

धर्मनित्या यथाकालं अग्न्यगारपरा भव ।
देवि ! देवस्य पादौ च देववत् परिपालय ॥ १८ ॥

 किं तत् ! इत्यतः-धर्मेत्यादि ॥ १८ ॥

अभिमानं च मानं च त्यक्त्वा वर्तस्व मातृषु ।
[१]अनु राजानमार्यां च कैकेयीमम्ब ! कारय ॥ १९ ॥

 अभिमानं च मानं चेति । 'गर्वोऽभिमानोऽहंकारो मानश्चितसमुन्नतिः' । राममातृत्वप्रधानमहिषीत्वादिप्रयुक्तोऽहङ्कार:- अभिमानः ; तत्प्रयुक्तो मानः-इतरतिरस्कारकश्चित्तविकारः । राजानमनुराज्ञः पश्चात् कैकेयीं चार्यामेवाभिवादय ॥ १९ ॥

कुमारे भरते वृत्तिः वर्तितव्या च राजवत् ।
[२][३] अर्थज्येष्ठा हि राजानः, राजधर्ममनुस्मर ॥ २० ॥

 भरते च राजवत् वृत्तिः वर्तितव्या-सम्पादनीया । कथमुमयमित्यतः - अर्थेत्यादि । हि यस्मात् अर्थज्येष्ठाः सन्तो गजानो भवन्ति, अतः खपुत्रायार्थसिद्धिविषये वरबलेन देव्याः कैकेय्याः प्रवृत्तत्वात् भरतस्य च राजदत्तार्थज्यैष्ठ्याच्च तद्विषयवैमुख्यनिवृत्तये राजधर्ममनुस्मर ॥ २० ॥


  1. अनुगतो राजा यस्यास्तां कैकेयी हे अम्ब ! आर्या श्लाघ्यां कारय-ति. अन्विति तुल्यायें राजानं कैकेयीं च तुल्यमनुवर्तस्व- गो. यद्वा-राजानं आर्यो कैकेयीं च अनुकारय-अनुसरेति यावत् ।
  2. जीवत्यपि दशरथे कैकेयीवरात् भरत एव खलु राजा । अतः दशरथे पतित्वानुगुणवर्तनं, भरते राजत्वानुगुणवर्तनं चोच्यते ॥
  3. अप्यज्येष्ठा-ङ. च.