पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

{{rh|left=12|center=रामसन्देशनिवेदनम्|right=[[अयोध्याकाण्ड:}}


इति सूतो नरेन्द्रेण चांदितः सज्जमानया |
उवाच वाचा राजानं स बाष्पपरि[१] रब्धया ॥ १३ ॥

 सज्जमानया --षङ्ग सङ्गे, स्खलन्त्येति यावत् । स बाप्पेत्यत्र स इति पदं, सूतो विशेष्यम् ॥ १३ ॥

अब्रवीन्मां, महाराज! धर्ममेवानुपालयन् ।
अञ्जलिं राघवः कृत्वा शिरसाऽभिप्रणम्य च ॥ १४ ॥
[२] सूत! मद्वचनात् तस्य तातस्य विदितात्मनः ।
शिरसा वन्दनीयस्य [३] वन्द्य पादौ [४] महात्मनः ॥१५॥
सर्वमन्तःपुरं वाच्यं, सूत [५] मद्वचनात् त्वया ।
आरोग्यमविशेषेण यथार्हं चाभिवादनम् ॥ १६ ॥

 अब्रवीदित्यादि । हे महाराज ! राघवः धर्ममेवानुपालयन् भूत्वा त्वां प्रति मया वक्तव्यं सन्देशं अब्रवीत् । किमिति – हे सूत ! मे अञ्जलिं-मामकमञ्जलिं मत्प्रतिनिधित्वेन राज्ञे कृत्वा, तथैव शिरसाऽभिप्रणम्य उच्यमानधर्मकस्य राज्ञः पादौ च मद्वचनाद्वन्द्य-रामोऽमिवादयते इति मत्प्रतिनिधित्वेनाभिवाद्य, अनन्तरं सर्वमन्तःपुरं त्वया मद्वचनात् -'रामो वः सर्वा अविशेषेणारोग्यं पृच्छति' इति यथार्हमभिवादनं च वाच्यम् ॥ १६ ॥

माता च मम कौसल्या कुशलं चाभिवादनम् ।
अप्रमादं च वक्तव्या ब्रूयाच्चैनामिदं वचः ॥ १७ ॥


  1. बद्धया -ङ.
  2. पतम्याख्यानरीया श्लोकद्वयमेकं वाक्यम् । बन्यो इति पाठे तु भिक्षं वाक्यम् ।
  3. बन्द्धौ--ङ.
  4. पुन:पुन: - ड.
  5. अप्रमादं - भर्मे भर्तरि च । अथ वा क्रियाविशेषणमिदम् ।