पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८ सर्गः]
11
सुमन्त्नोऽपि यथावृत्तं सर्वं तस्मै न्यवेदयत्‌

सिद्धाथः खलु, सूत ! त्वं येन दृष्टौ ममात्मजौ ।
वनान्तं प्रविशन्तौ तौ अश्विनाविव [१] मन्दरम्‌ ॥ १०॥

 अश्विनाविव मन्दरमिति । [२] मन्दररस्य कार्ष्ण्यमात्रात्‌ वनसादृश्म्‌ ॥ १५॥

किमुवाच वचो रामः किमुवाच च लक्ष्मणः ।
सुमन्त्र ! वनमासाद्य किमुवाच च मैथिली ॥ ११॥
आसितं शयितं भुक्तं, सूत! रामस्य कीर्तय ।
जीविष्याम्यहमेतेन ययातिरिव साधुषु ॥ १२ ॥

 आसितादयो भावे निष्ठाः । एतेनेति । आसनादिव्यापारश्रवणेनेत्यर्थः । ययातिरिव साधुष्विति । स्वर्गात्‌ पतन्‌ ययातिः 'मां साधुषु पातय' इतीन्द्रं प्रार्थयित्वा यथा साधुषु पतितः, [३] एवं स्वर्गतुल्यराज्यात्‌ प्रभ्रष्टस्य साधूनामाश्रमेषु पतितस्य रामस्यासनादीनि कीर्तयेति योजना ॥ १२ ॥


  1. सुन्दरौ-ङ,
  2. यद्वा – मन्दरं - मन्दमित्यर्थ: । क्रियाविशेषणं चेदम् । अश्विनाविव सुन्दरौ तो पद्भ्यां गमने अपरिचितौ मन्दं यथा तथा वनान्तं प्रविशन्तौ येन त्वया दृष्टौ-इत्यन्वयः ॥ रथात् अवरुह्य पादैः गतौ - इति पूर्वश्लोककथनात्, सुन्दरपुरुषयो: गजगमनयो:, रामलक्ष्मणयोः गमनसौन्दर्यं मनसा पश्यन् दशरथो वदति । यद्वा---'मन्दरः सैरिभः शक्रसदनं खं दिवं नभ:’ इति त्रिकाण्डशेषात् अश्विनौ मन्दरं-स्वर्गमिवेत्यर्थः ॥
  3. अथ वा-स्वर्गात् भ्रष्टः ययाति: यथा साधुसंगमात् कथञ्चित् निर्वृतिं प्राप तथाऽहमपि रामकथाश्रवणात् जीवेयमित्यर्थः । ययातिकथा महाभारते (म. भा. आ. -82) श्रूयते – स्वसत्कर्मणा स्वर्गं प्राप्तं ययातिं इन्द्रः परीक्षार्थं – 'केनासि तुल्यस्तपसा ययाते' इत्यपृच्छत् । ययातिस्तु गर्वात् -'नाहं देवमनुष्येषु गन्धर्वेषु महर्षिषु । आत्मनस्तपसा तुल्यं कञ्चित्पश्यामि वासव ॥ ' इत्यवदत् । एवं सर्वभूतावमाननात् 'पतितोऽस्यद्य राजन्' इतीन्द्रेणाभिहितः सः 'इच्छाम्यहं सुरलोकात् विहीनः सतां मध्ये पतितुं देवराज’ इति प्रार्थयामासेन्द्रम्, तथैव साधुसहवासं प्राप च ॥