पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रामोऽपि सीतया साकं बवन्दे तान् यथाक्रमम् विदेहराजस्य सुता स्नुषा दशरथस्य च । रामपत्नी कथं दुःखं संप्राप्ता निर्जने वने ॥ २४ ॥ wgy 4 १०४ सर्ग:] पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम् । काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदैः ।। २५ ।। परिकष्ट - परिमृदितं उत्पलं-रकोत्पलम् । ध्वस्तं - अभिभूतम् ॥ मुखं ते प्रेक्ष्य* मां शोकः दहत्यग्निरिवा'शयम्' । भृशं मनसि, वैदेहि ! व्यसनारणिसंभवः ।। २६ ।। मनसि संक्रान्तः व्यसनारणिसंभवः शोकः, अग्भिः आशयं- गृहं, आशय्यते अस्मिन्नित्या राय:- यः- गृहमिव मां दहति ॥ २६ ॥ ब्रुवन्त्यामेव मार्तायां जनन्यां भरताग्रजः । पादावासाद्य जग्राह वसिष्ठस्य च राघवः ॥ २७ ॥ पुरोहितस्याग्रिसमस्य वै तदा बृहस्पतेरिन्द्र 'इवामराधिपः प्रगृद्ध पादौ सुसमृद्धतेजसः सह तैः-क्र, सहैव तेनोपविवेश राघवः ॥ २८ ॥

  1. तते 'जघन्यः सहितैः समन्त्रिभिः

पुरप्रधानैश्च ' सहैव सैनिकैः । जनेन धर्मज्ञतमेन धर्मवान् § उपोपविष्टो भरतस्तदाऽग्रजम् ॥ २९ ॥

  • ते मुखं प्रेक्ष्य, स्थितामिति शेष:- गो. आश्रयाश इस्यमेनीमान्तरम् । ततो

जघन्यं-बसिष्ठरामोपवेशादनन्तरं-गो. जघन्यं निम्नदेश-रा. अग्रजमुपोपविष्टः । श्रयम् ङ. च. 2 'श्वामराग्रज:-ङ. 3 जघन्यं-ड. च. 381 PR21P1 ' स्वमन्त्रिभिः-च. ७ तथैव-ख.