पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततो रामाय भरतः पितुर्मरणमत्रवीत् द्वयुत्तरशततमः सर्गः [दशरथगति निवेदनम् ] रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह । किं मे * धर्माद्विहीनस्य राजधर्मः करिष्यति ॥ १ ॥ १०२ सर्ग:] 6 SURES एवं संक्षिप्योपदिष्टार्थस्य विस्तरोपदेशः । स्वभावश्यायं कवेः प्रायेण । रामस्येत्यादि । पूर्वसर्गादौ 'क्क तेऽभूत् पिता' इत्यादिना पितृवृत्तान्तः पृष्टः । तदनन्तरं 'कच्चि छुश्रूषने' इत्यादिना सर्गसमाप्ति- पर्यन्तं धर्मप्रश्नः कृतः । तत्र राजधर्मप्रश्नः मामनवसरदुस्थ इत्याह- किंम इत्यादि । घर्माद्विहीनस्येति । 'सति कुलोचितकर्मणि' इति न्यायेन धम्र्म्यं राजत्वमेव मे नास्ति, तस्य मे राजधर्मः किं करिष्यति ! अनुपनीतयागवत् ॥ १ ॥ शाश्वतोऽयं सदा धर्मः स्थितोऽस्मासु, नरर्षभ ! ज्येष्ठे पुत्रे स्थिते, 'राजन् ! न कनीयान् नृपो भवेत् ।। कुतस्ते उक्तधर्माभाव इत्यतः - शाश्वतोऽयमित्यादि। अयं धर्मः स्थितः-प्रतिष्ठितः । अयमिति अतः कनीयस्त्वान्मे न राजत्व- अस्मासु-अस्मद्वंश्येषु यथा- यथाशास्त्रं कतम इत्यतः - ज्येष्ठ इत्यादि । प्रसक्तिरिति बहिरुपसंहारः ॥ २ ॥ 365 स समृद्रां मया सार्ध अयोध्यां गच्छ, राघव! अभिषेचय चात्मानं कुलस्यास्य भवाय नः ॥ ३ ॥ rf

  • घमात्-स्वत्सेवा रूपमुख्यधर्मात । यद्वा-धर्माद-दुक्तराज श्रम नु-नहेतु-

भूतराजभावात् - गो. वस्तुतस्तु उत्तरश्लोकपयांलोचनायां – पेठानुकमा सामान्य- धर्मात् विहीनस्य राजधर्मरूपविशेषधर्मस्य का प्रसक्तिरित्याशय: स्वरसः प्रतिभाति । ↑ भवाय-क्षेमाय, ' भवः क्षेमेशसंसारे' इति मेदिनी । ज्येष्ठ पुत्रे- रा-छ., राजा-च. 2