पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० सर्ग:], कश्चित, भरत ! ते बुद्धिः धर्मकामार्थसंहिता. ? वर्गादीनां तत्त्वं ज्ञात्वा तत्र ये हेयाः, तान् जहासि ! अन् गृह्णा सि कच्चित् ? इत्यर्थः ॥ ७० ॥ 355 मन्त्रिभिस्त्व * यथोद्दिष्टं चतुर्भिस्त्रिभिरेव वा । कच्चित् समस्तैर्व्यस्तैर्वा मन्त्रं मन्त्रयसे मिथः ।। ७१ ॥ यथोद्दिष्टमिति । नीतिशास्त्रोक्तमन्त्रविचारमार्गमनतिक्रम्ये. -- त्यर्थः । व्यस्तैः – क्रमशः प्राप्तैः, तथा समस्तैः – संभूयप्राप्तैर्वा मिथः — रहसि मन्त्रं मन्त्रयसे कच्चित् ? सर्वथा नैकाकी मन्त्रयसे ! इति यावत् ॥ ७१ ॥ 2 कच्चित्ते सफला वेदाः कच्चिते सफलाः क्रियाः । कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् ॥ ७२ ॥ वेदाः सफला इति । अग्निहोत्रादिकर्मप्रवर्तनेनेति शेषः । ते क्रियाः – आरब्धसन्धिविग्रहादिराज कार्याणि तत्तद्देश्यफलयुक्तानि दारा: सफला इति । धर्मरतिप्रजालक्षणप्रयोजनवन्ध - कच्चित् ? इति यावत् । श्रुतं-बहुश्रुतं, तस्य साफल्यं विनीतत्वम् ॥ ७२ ॥

  • कच्चिदेष्वेव ते बुद्धिः यथोक्ता मम, राघव !

+ आयुष्या च यशस्या च धर्मकामार्थसंहिता ॥ ७३ ॥ एष्वेवेति । यथोक्ता मम धर्मबुद्धिः येष्वेव राजधर्मेषु प्रतिष्ठिता, तेष्वेव तवापि बुद्धिः प्रतिष्ठिता वाचत् ? यथोक्ता बुद्धिश्च आयुष्या- दीर्घायुष्करी, तथा यशस्या ॥ ७३ ॥

- धनानि - गो. + आयुष्या यशस्या - तथैव तव वर्तते कच्चित् - गो. 1 3679

  • यथोद्दिष्टैः - शास्त्रोक्तमत्रिलक्षणलक्षितैः- गो. + क्रियन्ते-साध्यन्त इति कियाः

• धर्मकामार्थसंहिता उक्ता एषा बुद्धिः मम यथा, यथोद्दिष्टैः-ड. बुध-च. ३ कश्चिदेवा चङ. कश्चिदेषैव-ङ. च. 23*