पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

356 कुशलप्रश्न: [अयोध्याकाण्ड:

  • यां वृत्तिं वर्तते तातः यां च नः प्रपितामहाः ।

तां वृत्ति वर्तसे कच्चित् या च सत्पथगा शुभा ॥ ७४ ॥ सत्पथगा – शिष्टानुष्ठानमार्गगा ॥ ७४ ॥ कच्चित् स्वादुकृतं भोज्यं एको नाम सि, राघव ! कच्चिदाशंस मानेभ्यः मित्रेभ्यः संप्रयच्छसि ॥ ७५ ॥ स्वादुतया कृतं—सिद्धं – स्वादुकृतम् । आशंसमानेभ्यः- स्नेहवृद्धिमपेक्षमाणेभ्यः मित्रेभ्यः - स्निग्धेभ्यः ॥ ७५ ॥ राजा तु धर्मेण हि पालयित्वा + 'महामतिर्दण्डधरः प्रजानाम् अवाप्य कृत्स्नां वसुधां यथावत् इतश्चयुतः स्वर्गमुपैति विद्वान् ।। ७६ ।। इत्यावें श्रीमद्रामायणे वास्मीकीये अयोध्याकाण्डे शततमः सर्गः इतश्चयुत इति । एतद्देइलो काभ्यामित्यर्थः । तथा (७६) मानः सर्गः ॥ ७६ ॥ इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे शततमः सर्गः

  • वर्तते --अवतिष्ट। यद्वा दशरथमरणस्याश्चातत्वात् वर्तत इत्युक्तिः । पितामहस्य

अजस्य चिरं राज्यपरिपालनाभावात् प्रपितामहा इत्युक्तम्- गो. वस्तुतस्तु - बहुवचनसत्वात् 'अस्मत्पूर्वे सर्वेऽपि' इत्यर्थ: स्वरसः। वर्तत इत्यस्य च आकर्ष:, बहुवचनान्ततया परिणामश्च । + आसमानेभ्यः, घनमिति शेष:- गो. + पालयित्वा, महीमिति शेषः । महामतिः - उक्तनीतिधर्मश: । दण्डघर:- युक्तदण्डधरः । यथावत् - पूर्वराजवत्। इतः ---अस्मा- लोकात् । भ्युन: - प्रारब्धकर्माबसाने मृत इत्यर्थः । विद्वान् – शरीरभिवात्मशानवान्-गो. --- 1 महीपति-च.