पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० सर्ग:] कञ्चित्र लोकायतिकान् ब्राह्मणांस्तात ! सेवसे ? अपास्तान्-- निष्कासितान् । प्रतियातानू --पुनः आगतान्, अवज्ञया दुर्बलोऽयमहितः किमस्माकं करिष्यति ? इति उपेक्षां न करोषि कच्चित् ? ॥ ३७ ॥ यस्मात् तर्हि कौशलमस्ति प्रत्यक्षप्रमाणमेव

  • कच्चिन्न लोकायतिकान् ब्राह्मणांस्तात ! सेवसे ।

अनर्थकुशला ह्येते बालाः पण्डितमानिनः ॥ ३८ ॥ लोकायतिकान्-- लोकः--सर्वलोकसिद्धं अयनं--प्रतिष्ठा अस्त्येषामिति, ‘ अत इनि उनौ ' इति ठन्, चार्वाकशास्त्रवावदूकान् शुष्कतर्कवाव दूकांश्च ब्रह्मणान् न सेबसे कच्चित् ? ब्राह्मणत्वेऽपि तदपरिग्रहहेतुः-- अनर्थेत्यादि । हि-- परले। कतत्साधनानुष्ठानाभावरूपानर्थप्रतिपादनकुशलाः । क्वचिदपि कथं न ते ग्राह्या अज्ञाः परमार्थवेदवादिसन्निधाविति शेषः । चेत् इत्यतः -- बाला इति । अत एव पण्डितमानिनः-- स्वयुक्तयैव केवलमात्मनः पण्डितान् मन्यन्ते, नान्यत्र ॥ ३८ ॥ धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः । बुद्धिमान्वीक्षक प्राप्य निरर्थ प्रवदन्ति ते ॥ ३९ ॥ चोच्यते । । 341 -

  • लोकेष्वायतं — विस्तृतं प्रत्यक्षप्रमाणं; यद्वा लोकायतशब्दाभ्यां प्रत्यक्षमनुमानं

लोकायतिका:- नास्तिका बैद्धचार्वाकादयः- गो. ९ तेषां ब्रह्मणत्वं च जन्मतः । † अनर्थंकुशलत्व मे वोपपादयति - धर्म शास्त्रष्विति । दुर्बुधा:- वेदमार्गविपरीत- बुद्धय: ते मुख्येषु– तामसस्मृतिपुराणादिव्यावृत्तेषु सात्त्विक महर्षिप्रणीतेषु सज्जना- दरणीयेषु धर्मशास्त्रेषु – धर्मप्रमापक शास्त्रषु विद्यमानेषु- तत्संप्रदायपरंपरया पठथमानेषु सत्सु आन्वीक्षक बुद्धि प्राप्य - शुष्कतर्कविषयां बुद्धिमास्थाय निरर्थ- निष्प्रयोजन प्रवदन्ति-गो. धर्मस्यातिसूक्ष्मत्वेन तर्केः निर्णेतुम शक्यत्वेन, तर्कमवलम्ब्यैव वादकरणे अनर्थ एव पर्यवसानं स्यादिति भावः । 1 वाच्यमानेषु - ङ. -