पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुशलप्रश्न: [ अयोध्या काण्ड: अथ द्वितीयं लोकायतानामपरिग्राह्यत्वे हेतुमाह - धर्मेत्यादि । मुख्यप्रमाणभूतेषु श्रुतिस्मृतिलक्षणधर्मशास्त्रेषु विद्यमानेष्वपि केचन दुर्बुधाः-दुर्विद्वांसः आन्वीक्षक-'आन्वीक्षकी दण्डनीतिः तर्कविद्यार्थ- शास्त्रयोः', शुष्कतर्कविद्याजनितां बुद्धिमवलम्ब्य निरर्थ-निष्प्रयोजन- मेव-मिथ्याप्रयोजनमेव प्रवदन्तीति । न हि षोडशपदार्थज्ञानान्मोक्ष इति काचित् श्रुतिः स्मृतिर्वाऽस्ति । नापि च तत्प्रतिपाद्यजडात्मनः ईश्वरात् भिन्नस्य ज्ञानाद्वा मुक्तिरित्यस्ति । नापि चात्मा जडः, नापीशभिन्नः । नापि चेशो युज्यते तत्प्रलप्यमाननित्यज्ञानादिगुणकः जगन्निमित्तमिति । अयं प्रसङ्गः श्रीमत्पञ्चाशिकायामेवावधार्यः । एषामपि लोकायतत्वं सिद्धम् । प्रत्यक्षमेकं चार्वाकाः कणादः सौगतः पुनः । अनुमानं च तच्चेति ' । ननु ! न्यायैकदेशिभिः शब्दोऽप्यङ्गीक्रियते । तत् कथं भान्वीक्षकी बुद्धिमतां विशेषणं लोकायतत्वम् ? एकदेशभिरपि स्वदुर्मताविरुद्धधर्मादिमागः स्वीक्रियते । तद्विरुद्धचित्स्वभावात्म- प्रत्यग्ब्रह्माभदादिकं शाब्दं न स्वीक्रियत एव ॥ ३९ ॥ 342 6

• वीरैरध्युपितां पूर्व अस्माकं, तात ! पूर्वकैः । सत्यनामां दृढद्वारा हस्त्यश्वरथसकुलाम् ॥ ४० ॥ वीरित्यादि । सत्यनामामिति । अयोध्येत्यन्वर्थनामवतीमित्यर्थः ॥ ब्राह्मणैः क्षत्रियैर्वैश्यैः स्वकर्मनिरतैः सदा । जितेन्द्रियैर्महोत्साहैः वृतामार्यैः सहस्रशः ॥ ४१ ॥ आर्यैरिति । ब्राह्मणैरित्यायुक्त रूपै त्रैवर्णिकैरित्यर्थः ॥ ४१ ॥

  • वीरैरित्यादिश्लोकत्रय मेकं वाक्यम् पूर्व एतादृशीं अयोध्यां समुदितां स्फीतां

परिरक्षसि कञ्चित् - प्राक्तन वैभवादेलोंपो यथा न भवेत् तथा रक्षसि किम् ?