पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुशकप्रमः [अयोध्याकाण्ड: कञ्चिदष्टादशेत्यादि । अष्टादशाख्येषु– अष्टादशंसङ्ख्या- सङ्ख्येयेषु तीर्थेषु, स्वपक्षे पञ्चदशतीर्थानि, चकारात् परपक्षे सर्व- तीर्थानि च। एकस्मिन्नेकस्मिन् विषये नियुक्तैः परस्परमविज्ञातैः त्रिभिस्त्रिभिः चारैः --अपसर्पैः वेत्सि कच्चित् ? तीर्थानि तु-- मन्त्रि पुरोहित से नापतियुवराजाः, प्रतिहारी, अन्तर्वेशिकाः, कारागाराधि- कृतः, अर्थसञ्चयकृत्, कार्यनियोक्ता, प्राडिवाकः, सेनाधिनायकः । पश्चात् कर्मान्तिकनगराध्यक्षौ धर्माधिकृच्च सभ्यश्च राष्ट्रान्तदुर्गदण्डपाला- स्तीर्थ दशाष्टौ च | तत्र प्रतिहारी --दौवारिकः, स्त्री द्वारं प्रतीहारः ' । अन्तर्वाशिक इति । ' अन्तःपुरे त्वधिकृतः स्यादन्त- 6 वैशिको जनः ' । कारागारं-- बन्धनालयः । अर्थसञ्चयकृत् -- घनाध्यक्षः । कार्यनियोक्ता --राजवचनस्य बहिस्सञ्चारकः । 'प्राडिवाकः--व्यवहारद्रष्टा । सेनाधिनायकः--सेनाया जीवितभृति- दानाध्यक्षः । कर्मान्तिकाः - कर्मान्ते वेतनग्राहिणः | नगराध्यक्षः-- पुरपरिपालकः । धर्माध्यक्षः--धर्मासनाधिकृत् । सभ्यः --सभ्य- व्यवहारनिर्णेता । राष्ट्रान्त:-- इतरराष्ट्रान्तस्वराष्ट्रान्तः --सीमान्तः । दुर्ग-- जलगिरिवनस्थलदुर्गम् । दण्डस्तु दुष्टदण्डनम् । पालाः--उक्त- पालनाधिकृताः । अत्र मन्त्रिपुरोहितयुवराजव्यतिरिक्ततीर्थपञ्चदशकं स्वदंशे विचार्यम् । परराष्ट्रे मन्त्रिपुरोहितयुवराजाश्च । एभिः स्वाधिकारः न्यायतः प्रवर्तते ? अन्यायतो वा ? इति विचारणीयमित्यर्थः ॥ ३६ ॥ 340

"कच्चिद्व्यपास्तान् अहितान् प्रतियातांश्च ' सर्वदा । दुर्बलाननवज्ञाय वर्तसे, रिपुदन ! ।। ३७ ।।

  • प्राडिवाक:-
-व्यवहारप्रष्टा । तल्लक्षणमुक्तं ' विवादे पृच्छति प्रश्न प्रतिप्रश्न

तथैव च । प्रियपूर्व प्राग्वदति प्राडिशवस्वतः स्मृतः । इति-गो. ? सर्वश:-ड.. 1 कच्चि रास्तान्-ड. MS