पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० सर्ग:] कश्चिद्राज्यं यथाश्रम शासि त्वं नियतः सदा ? . कच्चित् त्वां नावजानन्ति याजकाः पतितं यथा 1

  • 1 उग्राप्रतिग्रहीतारं कामयानमिव स्त्रियः ॥ २८ ॥

नावजानन्तीति । अयाज्योऽयमिति तावत्ककि ञ्चत्पापानु- सन्धानेन तु यथा साक्षात्पतितमुरेक्षन्ते, तथा त्वां नोपेक्षन्ते कञ्चित् । तत्र दृष्टान्तः - उम्रेत्यादि । स्त्रियः- कुलस्त्रियः । उग्रा-उग्रा ख्य - - ही नजातिस्त्री, तत्प्रतिग्रहीतारं, तां च कामयमानं - मुगभाव आर्षः, तन्नित्यसक्तमित्यर्थः, पतिमिति शेषः ॥ २८ ॥ 2 3 +उपायकुशलं वैद्यं ' भृत्यं सन्दूपणे रतम् । शूरमैश्वर्यकामं च यो न हन्ति स ' वध्यते ।। २९ ।। सकाशादर्थग्रहणाय व्याध्युल्त्रणोपाय- कुशलं वैद्यं - भिषजम्; सन्दूषणे-स्वामिदूषण रतं भृत्यं – सेवकं ; ऐश्वर्य कामं -राजानमपच्छिद्य तदैश्वर्यकामं शू-प्रभुं च यो न हन्ति, स राजा तैरेव भिषगादिभिर्हन्यते । लोकप्रसिद्धश्चायमर्थः ।। २९ ।। उपायकुशलं- राज्ञः 337

  • उग्रप्रतिग्रहीतारमिति उपामानोपमेययो: साधारणविशेषणम् । उग्रेण-दण्डो-

पायेनादण्डवेभ्यो धनग्रहणं कुर्वन्तं त्वां उग्रप्रतिग्रहीतारं-उग्रेण दुर्दानेन धनप्रतिग्रहीतार पतितं - यहुकामं पतितं याजका:-ऋत्विज इव । उग्रेण कर्मणा बलात्कारेण प्रति- ग्रहीतारं कामयानं पुरुषं स्त्रिय इव-गो. उग्रेण कर्मणा – बलात्कारादिना प्रतिग्रहीतारं कामयानं- कामुकं त्रिय इव याजका: पतितमिव च नावजानन्ति, प्रजा इति शेषः । ....परे तु– उग्रः - शिवः, तत्प्रतिग्रहीतारं - अल्पपुंस्त्वं; तत्प्रतिग्रहीतु: ईदृशषण्डतायाः कर्मविपाकशास्त्रे उत्तेरित्याहुः-ति. प्रजातिक्रमणं उग्रकरग्रहणं च त्वयि नास्ति कच्चिदिति भावः - ती. ↑ उपायेषु-सामाद्यवायेषु कुशलं निपुणम् । वैयं-कणिक क कुटिलनीति विद्या विदम् । [चाणक्यायुक्तकुटिलनीतिशास्त्रविदम्] । भृत्यसन्दूषणे रतं - अन्तरङ्गभृत्यानां सन्दूषणे - असद्दोषोद्धाटनेन तद्विघटने रतम् । शूरं-- राजहिंसनेऽपि निर्भय, ऐश्वर्य कामं - कमेण राजेश्वर्याक्रमणकामं च-गो. उझ-ड.. च. झ. + त्यसन्दूषणे-ड.. 3 इन्यते-च. RAMAYANA---VOL. III 22