पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

338 कुशलप्रश्नः [अयोध्याकाण्ड:

  • कच्चिदृष्टश्व शूरश्च मतिमान् धृतिमान् शुचिः !

बुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः ॥ ३० ॥ बलवन्तश्च कच्चित्ते मुख्या युद्धविशारदाः । +दृष्टापदानविक्रान्ताः त्वया सत्कृत्य मानिताः ॥ ३१ ॥ दृष्टं - वृतरणानुभूतं अपदानं - शौर्य, तज्ज विक्रान्तं - परयोधा- भिभवनं येषां ते तथा ॥ ३१ ।।

कच्चित् वलस्य भक्तं च वेतनं च यथोचितम् । संप्राप्त कालं दातव्यं ददासि न विलम्बसे । ३२ ।। भक्तं - दैनन्दिनदेयान्नम् । वेतनं- प्रतिमासदेयं सेवाभृतिः ॥ कालातिक्रमणाच्चैव भक्तवेतनयोभृताः । 'भर्तुः कुप्यन्ति || दुष्यन्ति सोऽनर्थः सुमहान् स्मृतः ॥ भृताः-कर्मणि क्तः, भृत्या इति यावत् । दुष्यन्ति-विनाशयन्ति कार्याणि । स इति । भृत्यकोप इति यावत् ॥ ३३ ॥ 1

  • हृष्ट: - राजकृतसत्कारेण सन्तुष्टः । यद्वा धृष्ट इति च्छेदः; धृष्ट: -व्यवहारेषु

प्रगल्मः । तादृशं पूर्व सेनापति विहाय अतादृशमन्यं न परिगृहीतवानसि कच्चिदित्यर्थः- गो. +दृष्टं - साक्षात्कृतं अपदानं – पूर्ववृतं ('अपदानं कर्म वृत्तं' इत्यमरः) पौरुषं येषां ते तथोक्ताः - गो. ‡ददासि, न विलम्बसे कच्चित्— कालातिक्रमणं विना ददासि – - कच्चिन्–गो. § भृताः – भृतेजीविनः, भटा इति यावत - गो. || यतः कुष्यन्ति, अत एव दुर्भ्यान्त- 'क्रुद्धो हन्यात् गुरूनपि' इति हि नीतिः । दृष्टापदाना:-ङ. काले-ङ. 3 भर्तुरप्यतिकुप्यन्ति-च.