पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

332 -TAU TER A कुशलप्रश्नः [[अयोध्याकाण्ड: सा, तात ! कच्चित् कौसल्या * सुमित्रा च प्रजावती । सुखिनी कच्चिदार्या च देवी नन्दति कैकयी ।। १० ।। कच्चिद्विनयसंपन्नः कुलपुत्रो बहुश्रुतः । + अनसूयुरनुद्रष्टा 'सत्कृतस्ते पुरोहितः ॥ ११ ॥ कुलपुत्रः -- महाकुलप्रसूतः । अनुद्रष्टा- -तावकसकलहित- कृत्यस्यानुक्षणद्रष्टा । तथा ते पुरोहित इति । रामस्य वसिष्ठवत प्रातिस्विकपुरोहित इत्यर्थः ।। ११ ।। कामक SKIP 1975 ISPOSTE PESFIF

  1. कच्चिदग्निषु ते युक्तः ' विधिज्ञो मतिमानृजुः ।

हुतं च होष्यमाणं च काले वेदयते सदा ॥ १२ ॥ विधिज्ञः-- अग्निहोत्राद्यश्वमेघान्तसकलहोमविधिज्ञ इत्यर्थः । काले--होमकाले । वेदयते, तुभ्यमिति शेष शेषः ॥ १२ ॥

115 1 * प्रजावती- सुप्रजा: सुमित्रा च सुखिनी कञ्चिदित्यन्वयः । आयेंति स्वमात्र- पेक्षयाऽपि बहुमानोक्तिः, कैकेयी नन्दति कच्चित- गो. अत्र कौसल्या मित्रयोः ' सुखिनी ' इति, केकेण्या: 'नन्दति' इति च पदं प्रयुक्तं अवधेयम् । अनुद्रष्टा - वसिष्ठोपदिष्टानामुपद्रष्टा । ते पुरोहित इत्यनेन रामस्य सुयज्ञ इव भरतस्यापि सुयश एवोच्यत इत्यप्याहु:- गो. प्रातिस्विकः कश्चित् पुरोहितोऽस्तीति गम् +' पितृव्यपुत्रे सापत्ने परनारीसुतेषु च । विवाहदानयशादौ परिवेदो न दूषणम् 1801 इति स्मरणात् द्वैमातुरेष्वधिवेदनदोषाभावात् यज्ञोऽपि कृत इत्यारोप्य पृच्छति- कञ्चिदनिध्विति । अथवा अझिषु – अग्निकार्येषु । युक्त:- सावधान: नियुक्तो वा । अभिशुश्रूषणपर इत्यर्थः - गो. 1 सम्मतस्ते- ङ. 2 दानशो-ङ, गम्यते ।