पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० सर्ग:)] किमर्थमागतो बत्स ! राज्यं त्यक्ता त्विदं बनम् कञ्चिद्देवान् पितॄन् 'मातृ' गुरून् पितृसमानपि । वृद्धांथ 'तात * वैद्यांच ब्राह्मणांचाभिमन्यसे ।। १३ ।। 'ब्राह्मणांश्च नमस्यसि' इत्य अत्र तु धन्वन्तरिशास्त्रपरिश्रमवन्तो ब्राह्मणा एव पृच्छयन्ते । ते किल नित्यं पूज्याः, आत्मरक्षा हेतु- त्वात् । ननु कथं ब्राह्मणस्य भैषज्यकर्म ? सति सामध्ये तद्भ्यास- स्याप्यदोषत्वात् । ननु • अपूतो ह्येषोऽमेध्यो यो भिषक्' इति श्रुत्या निन्दितत्वात् कथं ब्राह्मणो भिषक् तत्तु वैद्यशास्त्रार्थविज्ञान- संप्रदायक्रियायोगादिरहिततया चिकित्साप्रवृत्तस्य हत्यातत्यापसंभवात् अज्ञविषयम् । वस्तुतस्तु आवश्यकस्थले ब्राह्मणोत्तमसाध्यं भैषज्यं महते पुण्याय । श्रुतिसम्मततरमेव तस्य सुब्राह्मण्यम्, विप्रस्स उच्यते भिषक् ' ‘रक्षोहामीव चातनः' इति घण्टाघोषात् ॥ १३ ॥ वैद्यांश्च ब्राह्मणानिति । सामान्यतः प्रश्नो भविष्यति । + इष्वस्त्रवरसंपन्नं अर्थशास्त्रविशारदम् । 11 #सुधन्वानमुपाध्यायं कच्चित् त्वं, 'तात ! मन्यसे ।।१४।। 333 201

  • विद्या येषां सन्तीति वैद्याः– विद्वांसः तान् । ब्राह्मणान् --ब्रह्मविदः 1

यद्धा वैद्यान्– मिषजः । तेषां बहुमतिश्च धनादिना परितोषणम् । ब्राह्मणानिति जातिमात्रपरो वा । तदा विद्याशीलादिकमपरीक्ष्य ब्राह्मणत्वमात्रेण यथायोग्य बहुमानं विवक्षितम्- गो. 'वैद्यांश्च ब्राह्मणांश्च' इति चकारद्वयसत्वादेवं व्याख्यानम् | उत्तरत्र ६१ श्लोके 'ब्राह्मणांश्च नमस्यसि ' इति प्रश्नेऽपि तत्र 'सिद्धार्थान्' इति विशेषणात् गुणतोऽपि ब्राह्मण्यं विवक्षितम् । अत्र तु सामान्यतो ब्राह्मण्यमिति न पैनरुक्तथ५ ॥ + इषवः – अमत्रका बाणा:, अस्त्राणि - समत्रकाः - गो. सुधन्वानं- सुधन्वनामकं उपाध्याय – धनुर्वेदाचार्यम्-गो. 1 त्यान्च. तंत्र-ड. 3 नावमन्यसे-ङ.