पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

० १०० सर्गः ) ततः पप्रच्छ भरतं एवं रामः समाहितः अभ भरतस्यागमनप्रयोजनं, शासति राजनि तदाज्ञया रामा- नयनं वा स्यात् ? अथवा राज्ञोऽप्यपाये निरालम्बतया दुःखाद्वा रामदर्शनाय वा स्यात् तत्र प्रथमः पक्ष उपन्यस्यते--कच्चिदित्यादि । यत्-यस्मात् त्वं राजाज्ञयेहागतः, राजा प्राणान् धारयते कच्चित् ? अथ द्वितीयप्रश्नः अथवा दीनः सः लोकान्तरं गतः कच्चिन्नु ? यत् त्वमिहागत इत्यनुकर्षः ॥ ६ ॥ कच्चित्, सौम्य ! न ते राज्यं भ्रष्टं बालस्य शाश्वतम् * । कच्चित् शुश्रूषसे, तात ! । पितरं सत्यविक्रमम् ॥ ७ ॥ 1 इममेव पक्षमाश्रित्य प्रश्नः – न ते राज्यं भ्रष्टमिति । मूल- प्रभोरत्ययाद्धेतोः प्राप्ता भ्रंशशङ्का 1 अथाजीवनपक्षस्य निश्चया- भावात् अश्लीलत्वाच्च तं पक्ष परित्यज्य राजजीवनपक्ष मेवावलम्ब्य प्रश्नः- - कच्चित् शुश्रूषस इत्यादि ॥ ७ ॥ 331 कच्चिद्दशरथो राजा 2 कुशली 'सत्यसङ्गरः । राजसूयाश्वमेधानां आहर्ता 'धर्मनिश्चितः ॥ ८ ॥ धर्मान्वितं निश्चितं--निश्चयः यस्य स तथा, भावे निष्ठा ॥ ८ ॥ +स कच्चित् ब्राह्मणो विद्वान् धर्मनित्यो महाद्युतिः । इक्ष्वाकुणामुपाध्यायः यथावत्, तात ! पूज्यते ।। ९ ।। इक्ष्वाकूणां उपाध्यायः—वसिष्ठः ॥ ९ ॥

  • शाश्वतं राज्यं भ्रटं न कच्चित् । + वसिष्ठ कौसल्यादीनामागमनं 103

'सर्गे वक्ष्यते ।' 2 कुलीनः- ङ. 3 विगतज्वर:- ङ. 1 वितुः सत्यपराक्रम-च. निश्चयः - ङ. धर्म-