पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गच्छन् ददर्श भरतः दूरात् रामाश्रमं ततः. सुमन्त्रस्त्वपि शत्रुघ्नमदूरादन्वपद्यत । 1 रामदर्शनजस्तर्षः भरतस्येव तस्य च ॥ ५ ॥ सुमन्त्रस्त्वपि त्वरया गच्छद्भरतानुधावच्छत्रुघ्नं दूरादपरित्यज्य अन्वपद्यत — अनुधावति स्म । भरतवदस्यापि सुमन्त्रस्य रामदर्शन- हेतुः अविशिष्ट इत्याइ—-रामदर्शनेत्यादि ।। ५।। ९९ सर्ग:] 319 गच्छन्नेवाथ भरतः तापसालयसंस्थिताम् ।

  • भ्रातुः पर्णकुटीं श्रीमान् उटजं च ददर्श ह || ६ ||

तापसानामालयैः सह संस्थिता तथा । पर्णकुटी- पर्णप्राधान्येन निर्मिता कुटी - शाला तथा ; इयं दर्शनप्रयोजनागततपस्व्यादिसंव्यव- हारप्रयोजना उटजात् बहिः प्रतिष्ठापिता । समित्तिकवाटं सदारुबन्धगृहं सीतानिवासप्रयोजनं तत् प्रागुक्तं 'सीता गुहां भजताम्' इति ।। ६ ।। उटजमिति । शालायास्त्वग्रतस्तस्याः ददर्श भरतस्तदा । काष्ठानि चावभग्नानि पुष्पाण्यपचितानि च ॥ ७ ॥ तस्या बहिष्ठपर्णशालाया अग्रतः काष्ठानि च ददर्शेत्यन्वयः । अवभग्नानीति । होमार्थमिति शेषः ॥ ७ ॥ सलक्ष्मणस्य रामस्य ददर्शाश्रम मेयुषः । । कृतं वृक्षेष्वभिज्ञानं कुशचीरैः क्वचित् क्वचित् ॥ ८ ॥

  • पर्णकुटीं - अग्न्यगारभूतां पर्णशालां, उटजं–दिदृक्षया समागतैः तापसैः सह

सुखावस्थानार्थमुपकलितां वर्णशालाम् । यद्वा- भ्रातुः पर्णकुटीं- सीतया सह शयनार्थ निर्मितां पर्णशालां, उटजं– दिवाऽवस्थानार्थं कल्पितं पर्णमण्डपम् । यद्वा - पर्णशालां --- महाशालां, उटजं-तन्मध्यवर्ति सुखावस्थानास्थानम् ; तथैव वक्ष्यति–'ददर्श महतीं ' (18) इत्यादिना-गो. ↑ ईयुष:- जलाशयादाश्रमं गच्छतो रामस्य, कुशादिभिः कृतं अभिज्ञान-चिह्नं, अन्योन्यस्य गमनागमनपरिशानायें कृतं- गो. मार्गपरिज्ञानार्थ-ति 3 मीयुष:-रु. रामदर्शनजो हर्षः पुष्पाण्युपचितानि ङ.