पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

320 रामसंगम: [अयोध्याकाण्ड: एयुषः, आङ्पूर्वादिणः कसुः । कुशचीरैः वृक्षेषु कृतं- अवसज्जनकृतं अभिज्ञानं ददर्श ॥ ८ ॥

ददर्श च वने तस्मिन् महतः सञ्चयान् कृतान् । मृगाणां महिषाणां च करीषैः * शीतकारणात् ॥ ९ ॥ मृगादीनां करीषैः कृतान् सञ्चयान् ददर्श । इत्यतः - शीतकारणात् - शीतपरिहारहेतोरित्यर्थः ॥ ९ ॥ किमर्था - उच्चैद्धानि चीराणि | लक्ष्मणेन भवेदयम् । अभिज्ञानकृतः पन्था विकाले गन्तुमिच्छता ॥ १० ॥ उच्चैरित्यादि । विकाले – मार्गस्य स्पष्टर्दशनायोग्य काले जलाहरणादिकिञ्चित्प्रयोजनाय गन्तुमिच्छता लक्ष्मणेन अभिज्ञान- कृतः – अभिज्ञानैः कृतज्ञापनः आश्रमस्य पन्था अयमेव भवेत् । यत इह पथि चीराणि उच्चैः – व्यक्त। ग्रेषु बद्धानि ॥ १० ॥ -

  1. इदं चोदात्तदन्तानां कुञ्जराणां तरखिनाम् ।

शैलपार्श्व परिक्रान्तं अन्योन्यमभिगर्जताम् ॥ ११ ॥ एवं आश्रममार्ग ज्ञात्वाऽथ यत्सन्देहादाश्रममार्गस्याभिज्ञान- करणं तं वनमार्ग चापश्यदित्याह – इदं चेत्यादि । इदं कुञ्जराणां परिक्रान्तं ' इति अधिकरणे निष्ठादिः, ' इदमेषामासित' इत्यादिवत् ; अस्मिन् वने कुञ्जराः परिक्रान्ता इत्यर्थः ।। ११ ।। 6 चैत्रशुक्कुदशम्यां प्रस्थानेन

  • शीतकारणात् — शीतनिवृत्तिकारणात् .

तत्र काले वैशाखान्तं शीतस्यापररात्रे जायमानत्वात् ति. आगामिशीतवारणार्थ- मिति वा ॥ + चीराणि दृश्यन्ते-गो. अन्योऽन्य कोपातिशयेन कुर्वतां आश्रमप्रवेशस्या शक्यत्वात आश्रमप्रान्तगमनं आश्रमप्रदेशं गजानामयं गमनमार्गः । सत्र गमननिवृश्यर्थ चेदममिज्ञानकरणमिति भावः - ति. वेगाइन्तादन्ति प्रहारं सूचयतीत्यर्थ:- गो.