पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राम संगम: UT [अयोध्याकाण्ड: आनयेति संदिश्य स्वयं त्वरितः सन् अग्रे मार्गे जगाम ; न तु मातृ: प्रतीक्ष्य स्थित इत्यर्थः ॥ २ ॥ 318 गच्छन्नेव महाबाहुः द्युतिमान् भरतस्तदा । शत्रुघ्नं चाब्रवीत् हृष्टः * तानमात्यांश्च सर्वशः ॥ ३ ॥ एवं त्वरितो गच्छन्नेव शत्रुघ्नादीनब्रवीदिति । एवमेव समीचीने पाङ्क्ते क्रमे स्थिते 'सुमन्त्रस्त्वपि' इत्यादिपञ्चश्लोक्यनन्तरं ' गच्छन्नेवाथ' इत्यादि श्लोकद्वयं, अस्य पूर्व पाठः प्रामादिक इत्यन्यः । एवं क्रम एवासङ्गतः । • करीषैः शीतकारणात्' इत्य- नन्तरं पुनरपि आश्रमचिह्नस्यैव ' उच्चैबंद्धानि चीराणि ' इत्यादेर्वक्तव्य- त्वात् । सर्वश इति स्वार्थमात्रे शस्- सर्वानिति यावत् ॥ ३ ॥ मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् । नातिदूरे हि मन्येऽहं नदीं मन्दाकिनीमितः ॥ ४ ॥ ,

  • अमात्यान् - सुमन्त्रं, बहुवचनं पूजार्थम् । यद्वा अनेनैवावगम्यते अन्येऽप्य-

मात्याः सुमन्त्रेण सहागता इति - गो. + गोविन्दराज:, महेश्वरतीथों वा । कतकरीत्या व्याख्याने इदं चिन्त्यम् – 'शत्रुघ्नं चाब्रवीत्' (3) इति अत्र स्थितेः 'मन्ये प्राप्ताः स्म इत्येकं लोकं भरतवचनम्, 'गच्छन्नेवाथ' (6) इत्यादिश्लोऋचतुष्टयं तु कविवाक्यमेव । • उच्चबंद्धानि ' (9) इत्यादिश्लोकचतुष्टयं तु पुनः भरतवचनम् । तत: ' अथ गत्वा ● शत्रुघ्नं , इत्येकं श्लोकं कविवचनम् । ततः पुन: भरतवचनम् । एवं सति यथा अत्र चाब्रवीत्' (3) इति, तत्त्र 'तं जनं चेदमब्रवीत्' (14) इति च दृश्यते, न तथा 'उच्चैर्वद्धानि चीराणि ' (10) इत्यस्य पूर्व दृश्यते । तत एतद्व्याख्याने वाक्यविच्छेद एव स्यात् । अतः गोविन्दराजादिसम्मतः क्रम एव युक्त प्रतिभाति । तत्र च 'सुमन्त्रस्त्वपि (3) इत्यनन्तरं 'गच्छन्नाथ' (1) इत्यारम्य 'करीषैः शीतकारणात्' (7) इत्यन्तं भरतदर्शनानुवादः कवेः । ' उच्चेबद्धानि' (10) इत्यादिकं तु साक्षात् भरतवाक्यम् । 7 नानयोः एकवाक्यतेति 'गच्छन्नेत्र' (8) 'मन्ये प्राप्ता: स्म' (9) इति मध्यगत- लोकाभ्यां न रामाश्रमवर्णनकमविच्छेदप्रसक्तिरिति शेयम् ॥ प्राप्तोऽस्मि ङ.