पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्याई भरतं हन्यां ससैन्यं निशितैः शरः अद्येमं * संवतं क्रोधं असत्कारं च, मानद ! मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम् || २६ || असत्कारं च । कैकेयीकृतमिति शेषः ॥ २६ ।। ९६ सर्ग:] अद्वैतच्चित्रकूटस्य काननं निशितैः शरैः । 1 ' भिन्दन् शत्रुशरीराणि करिष्ये शोणितोक्षितम् ॥ २७ ॥ शरैर्निर्भिन्नहृदयान् कुञ्जरांस्तुरगांस्तथा । श्वापदाः परिकर्षन्तु नरांव निहतान् मया ॥ २८ ॥

  1. शराणां धनुपश्चाहं ' अनृणोऽस्मि 'महामृधे ।

ससैन्यं भरतं हत्वा भविष्यामि न संशयः ॥ २९ ॥ " इत्याषें श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे षण्णवतितमः सर्गः हर (२८) मानः (१) सर्गः ॥ २९ ॥ इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे षण्णवतितमः सर्गः

  • संयतं - एतावता कालेन नियमितं क्रोधं-अवमानं च शत्रुशरीराणि भिन्दन्

काननं शोणितोक्षितं करिष्ये। अहं यतः पूर्वं तत्र तत्र युद्धे शराणां धनुषश्च विषये अनृण:-ऋणरहितः, शत्रुकलेबरादानेन परिहृतऋणः, स्वयं युद्धे क्वाप्यपराजित: शत्रुजयैक- शील इत्यर्थः ; अतः, अस्मीति अहमित्यर्थेऽव्ययम्; अस्मि - अहं महामृधे-भाविन्यपि युद्धे ससैन्यं भरतं हत्वा, अनृण इत्यनुकर्ष: ; अनृणो भविष्यामीत्यन्वयः । वनवासात् पूर्वमपि शम्बरसुतजयादिप्रतिपादनात्, तत्र लक्ष्मणस्यापि सहभावावश्यंभावात् युद्धसंभवः । अस्मीति कियापदं वा । तदा, अभवमित्यर्थः- गो. 'शराणां धनुषश्चाहमनृणोऽस्मि' इति स्वजीवन- ध्येयं सामान्यरूपेणोक्तम् । तादृशत्वादेव ससैन्यं भरतं हत्वा अनृणो भविष्यामि इत्यर्थः । 'अनृणोऽस्मिन्' इति पाठे – अस्मिन्- सन्निहिते महामृधे- महायुद्धे ससैन्यं भरतं इत्वा शराणां धनुषश्चाह अनृणो भविष्यामि एतावता धृतानां धनुरादीनां सार्थक्य सम्पादयामीति भावः । 1 छिन्दन् च. अनुस्मिन्- ङ. च. RAMAYANA-VOL. IIH 305 "महावने-च. 20