पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

306 भरतप्रशंसा सप्तनवतितमः सर्गः [भरतप्रशंसा]

' सुमंरब्धं तु 'सौमित्रि लक्ष्मणं क्रोधमूर्छितम् । रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत् ॥ १ ॥ || एवं कुपितो लक्ष्मणः सर्वभूतभावाभिज्ञेन भगवता रामेण भरतागमनप्रयोजनकथनेन निवृत्तरोषः क्रियते । सुसंरब्धमित्यादि । सुतरां संरम्भवन्तं - युद्धोद्योगवन्तम् ॥ १ ॥ [[अयोध्याकाण्ड: किमत्र धनुषा कार्य असिना वासचर्मणा । 2 महेष्वासे महाप्राज्ञे भरते स्वयमागते ॥ २ ॥ किमत्रेति । भरतविषय इत्यर्थः ॥ २ ॥

  1. पितुः सत्यं प्रतिश्रुत्य, हत्वा भरत मागतम् ।

किं करिष्यामि राज्येन सापवादेन, लक्ष्मण ! ॥ ३ ॥ सापवादेनेति । 'पित्रा दत्तं राज्यं भरतस्य रामो न पालितवान् ' इत्येवंरूपापवादेनेत्यर्थः ॥ ३ ॥ यद्दूव्यं बान्धवानां वा मित्राणां वा ! क्षये भवेत् । नाहं तत् प्रतिगृह्णीयां भक्षान् विषकृतानिव ॥ ४ ॥ क्षय इति । कृत इति शेषः ॥ ४ ॥

  • भरतं प्रति सुसंरब्धं-ति. पूर्वं तु सुमंरब्धं-सुतरां प्रीतं, ‘संरंभ: प्रणयेऽपि च' ;

अद्य तु तद्वैलक्षण्येन क्रोधमूर्छितम् । यद्वा क्रोधमूर्छितत्वादेव सुसंरब्धं-क्रोधकार्ययुद्धौ- न्मुख्यवन्तम्। तत्र हेतु: सपत्नीपुत्रत्व मित्याह - सौमित्रिमिति | यद्वा सुमित्रापुत्रत्वस्मारण- पूर्वक मुक्तवानिति द्योत्यते-गो. अथवा-सुमित्रया 'रामं दशरथं विद्धि' इत्युक्तत्वात् रामरक्षणपरमित्यर्थः । + परप्रतिघातरक्षकं वामहस्ते घार्यमाणं चर्म भरताय राज्य- दानस्य पित्र अंगीकृतत्वात् कथं तद्वधः - इति भावः । § क्षये सति इति वाऽर्थः । 3 माहवेच. ु 1 भरतं च. 2 महाबले महात्साहे- च.