पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

304 लक्ष्मणसंरंभः [अयोध्याकाण्डः अपि मे वशमागच्छेत् कोविदारध्वजो रणे । अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत् ॥ २० ॥ त्वया, राघव ! संप्राप्तं सतिया च मया तथा । 'अपि मे' इत्यादावपिः कामप्रवेदने । कोविदारध्वजो रणे मे वशं आगच्छेदपि, सादिनश्च, शैलमुपाश्रयन्नपि भरतं द्रक्ष्याम्यपि, तदाऽसौ मे भरतः वध्य एव । कुत इत्यतः यत्कृते व्यसनमित्यादि ॥ २० ॥ यन्निमित्तं भवान् राज्यात् च्युतः, राघव ! शाश्वतात् । संप्राप्तोऽयमरिः, वीर ! भरतो वध्य एव मे ॥ २१ ॥ भरतस्य वधे दोषं नाई पश्यामि, राघव !

  • पूर्वापकारिणां * त्यागे न ह्यधर्मो विधीयते ॥ २२ ॥

पूर्वापकारिणां त्याग इति । भ्रातृणामिति शेषः ॥ २२ ॥ 3 पूर्वापकारी भरतः + व्यक्तधर्मश्र, राघव ! एतस्मिन् निहते कृत्स्नां अनुशाधि वसुन्धराम् ॥ २३ ।। अद्य पुत्रं हतं सङ्ख्ये कैकेयी राज्यकामुका । + मया पश्येत् सुदुःखार्ता हस्तिभग्नमिव द्रुमम् ॥ २४ ॥ सङ्ख्ये- युद्धे, 'मृघमास्कन्दनं सङ्ख्यं ॥ २४ ॥ कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम् । कलुषेणाद्य महता मेदिनी परिमुच्यताम् ॥ २५ ॥ कलुषण- - पापन ॥ २५ ॥ द्रक्ष्याम-ङ,

  • त्यागे – वधे-गो. ति. + अपकारश्च न प्रामादिक इत्याह -त्यक्तधर्म

इति- गो. इदानीमस्मद्वभार्थागमनमेव पतन्निरूपयतीति भाव: । मया इतमित्यन्वयः । 3 त्यागे धर्मश्च च. 1 पूर्वापकारिणं इत्याच.