पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९६ सर्ग:] अवहन्तुमायाति भरत सेनया वृतः

  • एष वै सुमहान् श्रीमान् विटपी संप्रकाशते ।

•विराज त्युद्गतस्कन्धः कोविदारध्वजो रथे ॥ १७ ॥ कथमवगम्यतेऽसावित्यत्राह-एष वा इत्यादि । विटपः प्रकाशतां! किं तावता भरतनिश्चये ? तत्राह - विराजतीत्यादि । न केवलं यः कश्चन विटपो भातीति मयोच्यते, अपि त्वस्मत्कुलचिह्नः कोविदारवान् ध्वजो रथे विराजतीत्येव मयोच्यते । अतो भरत इति निश्चीयते मयेत्यर्थः ॥ १७ ॥ भजन्ते हि यथाकामं अश्वानारुह्य शीघ्रगान् । एते भ्राजन्ति संहृष्टाः गजानारुह्य + सादिनः ।। १८ ।। || हि-यस्मात् शीघ्रतरानश्वान् आरुह्य यथाकामं भजन्ते-- आगच्छन्ति ॥ १८ ॥ 2016 गृहीतधनुषौ चावां गिरिं, वीर ! श्रयावहै । 11 अथ वेहैव तिष्ठाव: सन्नद्धावुद्यतायुधौ ।। १९ ।। अतः - गृहीतधनुषावित्यादि ॥ १९ ॥

  • विटपी-ध्वजचिह्नभूतो वृक्षः प्रकाशते स्पं दृश्यते । तमेव विशिनष्टि--

विराजतीति - गो. य एष वृक्षो महान् संप्रकाशते, तत्समीपे तं लक्षीकृत्य रथे कोविदार ध्वजो विराजते-ति. + उद्गतस्कन्धत्वं लिखितवृक्षद्वारा-ती. गो. गजारोहा:- गो. अश्वारोहा:-ती. गृहीतसादिविह्ना गजारोहा:-ति. सादिनः-- ‘सादी तुरङ्गमातङ्गरथारोहेषु दृश्यते इति मेदिनी । ऽ दुर्गे स्थित्वा युद्धार्थं गिरेः अयणम् - गो. उत्तरार्धपरिशीलने—-यावच्छक्ति अपसर्पावः, गत्यन्तराभावे योत्स्यावः इति पूर्वार्धस्य, गत्यन्तराभावे कुतः, अत्रैव स्थित्वा योत्स्याव एव इति उत्तरार्धस्य चाशय: स्यादिति भाति । विटपीव प्रकाशते, विटपीब महाद्रुमः- ङ. 2 त्युज्वल-च. एतदनन्तरं-- असौ हि सुमहास्कन्धः विटपी च महाद्रुमः । विराजते महासैन्ये कोविदारध्वजो रथे-- अत्यधिकम् - ङ..