पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

302 लक्ष्मणसंरंभः अग्निं संशमयत्वार्यः सीता च भजतां गुहाम् । सज्यं कुरुष्व चापं च * शरांच कवचं तथा ॥ १४ ॥ आर्य: अग्निं संशमयत्विति । क्षोभकालेऽग्निशमनव्यापारः गुहां— अन्तर्गुहाम् । गणकग्रामवासिभिः अस्माभिः भूयोऽनुभूतः । शरांच, गृहाणेति शेषः ।। १४ ।। [अयोध्याकाण्ड: + अङ्गावेक्षख, सौमित्रे ! कस्येमां मन्यसे चमूम् । एवं युद्धसन्नाहवादिनं लक्ष्मणं रामो विमृश्यकारित्वादाह- अङ्गेत्यादि । यां एनां वनक्षोभहेतुभूतां चमूं मन्यसे - अवगच्छासे, इमां कस्येति वीक्षस्व || एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् । + दिधक्षन्निव तां सेनां रुषितः पावको यथा ।। १५ ।। रुषित इति कर्तरि निष्ठा ।। १५ ।। - [ संपन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्ताभिषेचनम् । आवां हन्तुं समायाति 'कैकेय्या भरतः सुतः ।। १६ ।। प्राप्ताभिषेचन – प्राप्तनिजाभिषेकं राज्यं संपन्न - संसिद्धं कर्तु- मिच्छन् भरत आयाति ॥ १६ ॥ गृहाण, इव दिधक्षन्नित्यन्वयः

  • यद्वा - कुरुष्वेत्यनुषङ्गः । करोते: क्रियासामाम्यवाचित्वात् औचित्येन शरान्

कवच धारयेत्यर्थः-गो. +'अ' इति सम्बोधने । + रुषितः सन् पावक S भरत: अमिषेचनं प्राप्य !! तावताऽप्यतृप्तः संपनं -- समृद्धं, निष्कण्टकमिति यावत्, राज्यमिच्छन् सन्- गो. ● प्राप्या-सर्वत्र. मरत: कैकमीसुत:-.