पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९६ सर्गः] लक्ष्मणः सालमारयापश्यत् भरतवाहिनीम् राजोवा *1 राजमात्रो वा मृगयामटते वने । अन्यद्वा श्वापदं किञ्चित्, सौमित्रे ! ज्ञातुमर्हसि ॥ ९ ॥ अथवा राजादिः मृगयामटते वेति ज्ञातुमर्हसि । तथाप्येवं बने शब्दो भवति किल ! सिंहादि ! अन्यद्वा श्वापददुष्टमृगं वा किञ्चित् वनं क्षोभयते इति ज्ञातुमर्हसि ॥ ९ ॥ सुदुञ्चरो गिरिचायं पक्षिणाममि, लक्ष्मण ! सर्वमेतत् यथातवं अचिरात् ज्ञातुमर्हसि ।। १० ।। स लक्ष्मणः संत्वरितः सालमारुह्य पुष्पितम् । प्रेक्षमाणो दिशः सर्वाः पूर्वा दिशमुदक्षत ॥ ११ ॥ सालः - वृक्षः ।। ११ ॥ 1 उदङ्मुखः प्रेक्षमाणः ददर्श महतीं चमूम् । रथाश्वगजसम्बाघां यत्तैर्युक्तां पदातिभिः ॥ १२ ॥ यतैः - सज्जैः जः ॥ १२ ॥

'राजमात्रः - राजतुस्य: - गो. पक्षिारोऽपीदानीं नास्तीत्यर्थ: -गो. कोलाहलस्य कारणं ज्ञातुमईसीति वा तात्पर्यम् । राजपुत्रो-च. 301 तामश्व'गजसंपूर्णा रथध्वजविभूषिताम् । शशंस सेनां रामाय वचनं चदमब्रवीत् ।। १३ ।। सेनां शशंसेति । सेनामेव श्रुतशब्दकारणं उक्तवानित्यर्थः ॥ + अयं गिरिः पक्षिणामपि सुदुश्वरो वर्तते- तावन्निबिडेऽस्मिन् गिरौ एतादृशमदा-