पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

300 लक्ष्मण संरंभः एतस्मिन्नन्तरे त्रस्ताः शब्देन महता *ततः । अर्दिता यूथपा मत्ताः 'सयूथा दुद्रुवुर्दिशः ॥ ४ ॥ एतस्मिन्नन्तरे – सेनाशब्द प्रवृत्तिसमये || ४ || [[अयोध्याकाण्ड: स तं सैन्यसमुद्भूतं शब्दं शुश्राव राघवः । तांच विप्रद्रुतान् 'सर्वान् यूथपानन्ववैक्षत ॥ ५ ॥ स राघवः :- रामश्च सैन्येन समुद्धृतं- उत्पादितम् ॥ ५ ॥ तांश्च विद्रवतो दृष्ट्वा तं च श्रुत्वा स निस्वनम् । उवाच रामः सौमित्रिं लक्ष्मणं दीप्ततेजसम् ।। ६ ।। स निस्वनमित्यत्र 'सः ' इति पदम् ।। ६ ।। हिन्त ! लक्ष्मण ! पश्येह + सुमित्रा सुप्रजास्त्वया ।

  • भीमस्तनितगंभीरः तुमुलः श्रूयते स्वनः ॥ ७ ॥

भीम – भयङ्करं यत् स्तनितं - मेघनिर्घोषः तद्वत् गंभीरः तुमुलः - निबिडः योऽयं स्वनः श्रूयते तस्य कारणं पश्येति योजना ॥ ७ ॥ गजयूथानि वारण्ये महिषा वा महावने । वित्रासिता मृगाः सिंहः सहसा प्रद्रुता दिशः ॥ ८ ॥ सिंहे: वित्रासितानि सहसा दिशो विद्रावितानि गजयूथानि वा कारणानीति विपरिणामः; तथा महिषादयो वा कारणमिति विज्ञातु- मर्हसि ॥ ८ ॥

  • तत: - तेन - गो.

स्वया स्वया सुमित्रा सरपुत्रेति 1 स्वयूभात् च. + इन्तेति व्यग्रतायामव्ययम्- गो. + सुमित्रा सुप्रजा: सान्त्वोक्ति:- गो. 2 भीतान्-ङ. महीस्तनित-क्र.