पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

264. भरद्वाजातिथ्यम् [अयोध्याकाण्ड: प्रतप्तपैठरै: – पिठरः – कपालः - 26 - तेषु संस्कृताः पक्काः - - - पैठराः, 'संस्कृतं भक्षाः' इत्यण्, प्रतापमात्रतः संस्कार्या:-- प्रतप्ताः पैठराश्च तथा । मृगादिसम्बद्ध मांसाः - मार्गादयः ॥ ७० ॥ 'पात्रीणां च सहस्राणि स्थालीनां नियुतानि च । न्यर्बुदानि च पात्राणि शातकुम्भमयानि च ॥ ७१ ।। पात्रीणां - अन्नपानीयपात्रीणां - | स्थालीनां - व्यञ्जनस्थालीनां - @niHो । नियुतं – लक्षं । न्यर्बुदानि - 'शतकोट्यः । पात्राणि – भोजनपात्राणि – 61_146) ॥ ७१ ॥ - - स्थाल्यः कुम्भ्यः करम्भ्यश्च दधिपूर्णाः सुसंस्कृताः । यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः ॥ ७२ ॥ - स्थाल्यः - लrarh | कुम्भ्यः - Grcळं LQ Son | दषि- पूर्णत्वं कुम्भविशेषणम् | करम्भ्यः-दधिमन्थनस्थाल्यः । यौवन- स्थस्य - न अपक्कस्य नातिपक्कस्य, मध्यमसुपरिपाकस्येत्यर्थः । गौरस्य- सुपक्कत्वादेव पीतवर्णस्य, 'पीतो गौरो हरिद्राभः' ; उक्तविशेषण- कपित्थस्य - affor riuspi-सम्बन्धिसुगन्धवतः ॥ ७२ ॥ . हृदाः पूर्णा रसालस्य दध्नः श्वेतस्य चापरे । बभूवुः 'पायसस्यान्ये शिर्कराणां च सञ्चयाः ॥ ७३ ॥ रसालस्य- —तऋविशेषस्य, 'अपक्कतक्रं सव्योषं चतुर्जातं गुडार्द्रकम् । सजीरकं रसालं स्यात् मज्जिका शिखरिण्यपि' इति •

  • ' पात्रीणां' इत्यारभ्य ' सञ्चया: ' इत्यन्तमेकं वाक्यम्- गो.

+ ' शर्करा- यावसञ्चयाः इति च पाठः, शर्करा मिश्रयव विकारापूपचया इत्यर्थ:- गो. 1 पयसश्चान्ये-च. शर्करायावसचयाः- ङ.