पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१ सर्ग:] नातृप्तः कोऽपि तत्रासीत् क्षुधितो मलिनोऽपि वा , आजैरित्यादि । आजादिपदार्थैः पूर्णा: । आजैः – अजमांसैः । तथा वाराहैः निष्ठानं व्यञ्जनं ज्ञेयम्' इति हरिः, व्यञ्जनश्रेष्ठानां सञ्चयास्तथा । निर्व्यूहः— क्वाथरसः, 'दर्यापीडे क्वाथरसे निर्व्यूहो नागदन्तके ' । सिद्धैः - भावे निष्ठा, सिद्धि: पाक इति यावत् पनसाम्रादिफल्क्व|थरसपाकभेदैरित्यर्थः । अपि च फलनिर्व्यूहसन्नि- हिततया सिद्धैः — पक्कैः सूपैरिति सूपविशेषणमपि । तादृशसूपः केरलप्रसिद्धः । गन्धरसान्वितैरिति साधारणं विशेषणम् । गन्धः - भर्जनादिसंस्कारादिजो गन्धविशेषः, तथा रसविशेषोऽपि ।। ६७ ।। पुष्पध्वजवती: पूर्णाः शुक्लस्यान्नस्य' चाभितः । दहशुर्विस्मितास्तत्र नरा * लौहीस्सहस्रशः ॥ ६८ ॥ पुष्पवत्यः ध्वजवत्यश्च तथा, इदमलङ्कारार्थं गन्धार्थं च । पूर्णयोगे षष्ठी सर्वत इति प्रागेवोक्तम् । लौही:-स्वर्णरजतमयपात्रीः दहशुरित्यन्वयः । लोहशब्दः पञ्चलोहसाधारणः || ६८ ।। 263 बभूवुर्वनपार्थेषु कृपाः पायस कर्दमाः । ताथ कामदुधा गावः द्रुमाश्वासन् 2 मधुस्रुतः ॥ ६९ ।। वनपार्श्वेषु — चैत्ररथवनवत् प्रतिभातवनप्रदेशेषु पञ्चयोजनपरि- मितेष्वित्यर्थः । ताश्च तद्वनवर्तिन्यो गाश्च कामदुधा आसन्, दुहः क्विपू, घश्च । वनप्रदेशेष्वेवं भोगसाधनसंपादनं अपाङ्केयाटविक- वननिषादादिबलाद्यर्थम् ॥ ६९ ॥ वाप्यो मैरेयपूर्णाश्च मृष्टमांस चयैर्वृताः । प्रतप्त पैठरश्चापि मार्गमायूरकौकुट: ।। ७० ।।

  • सर्वलोहेषु प्रधानत्वात् सुवर्णमत्र लोहशब्देन उच्यते - गो. + निषादादिबल-

तृप्तयर्थ प्रतापमात्रेण संस्कार्या:- प्रतप्ताः, तथा पिठर:- कपालं, तेषु संस्कृताः- पक्काः - पैठरा:-ति. प्रततपिठरैः -- प्रतप्तपिठरसंस्कृतैः - गो. ३ पिठरै-ङ. | चोच्छ्रिताः-ङ. मधुच्युतः-च. 2