पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

262 भरद्वाजातिथ्यम् ततो भुक्तवतां तेषां तदन्नममृतोपमम् । दिव्यानुद्वीक्ष्य भक्ष्यांस्तान् अभवद्भक्षणे मतिः ॥६३ ॥ अभवद्भक्षणे मतिरिति । परितृप्तत्वेऽपि भक्ष्यसौष्ठवात् पुनश्च। काङ्क्षाऽभूदित्यर्थः ।। ६३ ।। प्रेष्यावेटयश्च वध्वश्च बलस्थाश्च सहस्रशः । बभूवुस्त भृशं 'तृप्ताः सर्वे * चाहतवाससः ॥ ६४ ॥ प्रेष्याः - किङ्कराः । चेट्य:- दास्यः | बले – सेनायां तिष्ठन्तीति तथा । अइतवासस इति । नूतनवस्त्रपरिघाना इत्यर्थः ॥ ६४ ॥ [[अयोध्याकाण्डः कुञ्जराश्च खरोष्ट्राश्च ' गोऽश्वाश्च मृगपक्षिणः । बभूवुः सुभृतास्तत्र | नान्यो ह्यन्यमकल्पयत् ।। ६५ ।। खरोष्ट्रा इत्यादौ — सर्वो द्वन्द्व विभाषा' इत्येकत्वाभावः । मृगपक्षिणः क्रीडार्थाः सुभृताः – सुपुष्टाः । तत्र - सेनायाम् । अन्यः अन्यं प्रति अन्नादिकं नाकल्पयत्, ऋषिकृतमेव सर्वमुपयुक्त- वन्त इत्यर्थः ।। ६५ ।। 1 नाशुक्लवासास्तत्रासीत् क्षुधितो मलिनोऽपि वा । रजसा ध्वस्तकेशो वा नरः कश्चिददृश्यत ।। ६६ । आजैश्चापि च वाराहैः निष्ठानवरसञ्चयैः । फलनिर्व्यूह संसिद्धैः ' सूपैर्गन्धरसान्वितैः ॥ ६७ ।। 4

  • अहतवाससः - नूननवस्त्राः | यद्वा, आहतवाससः - निर्णिक्तवाससः -- - गो.

+ एते परस्परं उपचारादिकं नाकुर्वन्; महर्षिप्रेषित परिचारकैरेवेष्टसंपत्त्या परस्परापेक्षा 4 धूपै- ङ. नासीदिति भावः । दृप्ताः-ड.. प्रीता:- च. 2 गावश्व - ङ. 13 नातो-च.