पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

256 भरद्वाजातिथ्यम् [ अयोध्याकाण्ड: सितमेघनिभं सुधालेपेन । शुक्लमाल्यैः कृतः आकारः- अलङ्कारः यस्य स तथा । समुक्षितं - सिक्तम् । यानं - शिचिकादि । धौतत्वात्- प्रक्षालितत्वात् निर्मलानि भाजनानि-पात्राणि यस्मिन् तत्तथा ॥३३-३५॥ प्रविवेश महाबाहुः अनुज्ञातो महर्षिणा । वेश्म तत् रत्नसंपूर्ण भरतः केकयीसुतः ।। ३६ ।। अनुजग्मुश्च तं सर्वे मन्त्रिणः सपुरोहिताः । बभूवुश्च मुदा युक्ताः दृष्ट्वा तं वेश्मसंविधिम् || ३७ ॥ वेश्मनः संविधिः-विधानं तथा ॥ ३७ ॥ तत्र राजाऽऽसनं दिव्यं व्यजनं छत्रमेव च । भरतो मन्त्रिभिः सार्ध अभ्यवर्तत * राजवत् ॥ ३८ ॥ राजाऽऽसनं - सिंहासनं राजवदभ्यवर्तत ॥ ३८ ॥ + आसनं पूजयामास रामायाभिप्रणम्य च । वालव्यजनमादाय न्यषीदत् सचिवासने ॥ ३९ ॥

  • राजवत्-राजाईम्। राजाईमासनादिकं सर्व प्रदक्षिणं चकारेत्यर्थ:-ती.

राजासनं– राजाहीसनं अभ्यवर्तत—अभितोऽवर्तिष्ट प्रदक्षिणं कृतवानिति यावत् । राजवत - राजतुत्र्यं-राममिवेत्यर्थ:- गो. राजवत् - राजयोग्यम्-ती. + आसनं पूजयामासेत्यत्र राजवदित्यनुकर्षः । रामाय — आसनोपरिस्थितत्वेन भाविताय - गो. एतत्प्रकरणे समापततां आशङ्कानां विषये -- 'व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् (78) इति वक्ष्यमाणं वचनं विमर्शनीयम् । तिलके तु आसनं पूजयामासेति । रामचन्द्रीयमेतदिति बुद्धया रामाय प्रणम्य, आसनोपरि प्रतिष्ठितं रामं ध्यास्वेति शेत्र: । अत्रेदं बोध्यम् - भरतेन वाचोक्तमपि राज्यानभिलाषं लोका न श्रद्दध्यु: । अतः क्रिययाऽपि सर्वलोकप्रत्यायनाय महर्षिणा तपोव्ययेनापीदृश मातिथ्य- करणम् । किञ्च पुष्पादिभि: पूजेव इयमपि क्रिया विष्णोरंशभूतभरततुष्टये इति तत्करणम् । किञ्च भरतं प्रति 'त्वं दुष्टबुडथाssगतोऽसि किम् ?' इति प्रश्न तस्य ऋषेरसर्वशत्वासामर्थ्यादिशङ्कावारणाय स्वसामर्थ्यदर्शनम् । अपि च भगवदेकचित्तानां स्वर्गसुखमिहापि भवतीति भगवद्रामप्रीतिमाहात्म्यं प्रदर्शयितुं तदर्शनेन तेषां तत्राधिकां प्रीतिमुत्पादयितुं तथाकरणं मुनेरिति दिक्-ति.