पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९१ सर्गः] रम्याश्चावसथा दिव्या: बभूवुमुनिशासनात् राम- न तु तत्रोपविष्ट इत्याह — आसनं पूजयामांसेत्यादि । भद्रीयमिति बुद्धयेति शेषः । रामायाभिप्रणम्य चेति । आसनोपरि रामं प्रतिष्ठितं ध्यात्वेति शेषः । वालव्यजनं-तालवृन्तम् । रामसेवा- शेषतयेति शेषः । सचिवासने–सचिवोपक्कॢप्तासने सिंहासनाधस्तने || आनुपूर्व्यान्निषेदुश्च सर्वे मन्त्रिपुरोहिताः । ततः सेनापतिः पश्चात् * प्रशास्ता च निषेदतुः ॥ ४० ॥ प्रशास्ता - पुररक्षकः ॥ ४० ॥ ततस्तत्र मुहूर्तेन नद्यः पायसकर्दमाः । उपातिष्ठन्त भरतं भरद्वाजस्य शासनात् ॥ ४१ ।। [] तासामुभयतः कूलं पाण्डुमृत्तिकलेपनाः । रम्याश्रावसथा दिव्याः +2 ब्रह्मणस्तु प्रसादजाः ॥ ४२ ॥ तेनैव च मुहूर्तेन दिव्याभरणभूषिताः । आगुर्विंशतिसाहस्राः Ś ब्रह्मणा प्रहिताः स्त्रियः ॥ ४३ ॥ S आगु:-

-आगतवत्यः । ब्रह्मणा - बृहस्पतिना, पुत्रकार्य

सिद्ध्यर्थम् ॥ ४३ ॥

257 || सुवर्णमणि 'मुक्तेन प्रवालेन च शोभिताः । आगुर्विंशतिसाहस्राः कुबेर प्रहिताः स्त्रियः ॥ ४४ ॥ ' प्रशास्ता – शिविरनियन्ता-गो. + ब्रह्मण: – भरद्वाजस्य - गो. § ब्रह्मणा- मयाभरणानि, मणय: – रत्नानि, [1] तेजसा-हु. पाण्डुमृत्तिकलेपना:- सुधालिप्ता:- गो. चतुर्मुखेन- गो. || सुवर्णानि--- सुवर्ण- मुक्ताश्च – सुवर्णमणिमुक्तं-तेन-गो. ब्राह्मणस्य-च. युक्तेन-ङ. "सहिता:-ड" 17 RAMAYANA-VOL. IIT