पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नृत्यैर्गानैर्भूषणैश्च भूषितो दिव्य आश्रमः तस्मिन् बिल्वाः कपित्थाश्च पनसा बीजपूरकाः । आमलक्यो 'बभूवुश्च चूताश्च फल भूषणाः ॥ ३० ॥ बीजपूरः- मातुलङ्गकः । ९१ सर्ग:] -4 तस्मिन् – पञ्चयोजनायामप्रदेशे । फलभूषणत्वं * साधारणम् ॥ ३० ॥ उत्तरेभ्यः कुरुभ्यश्च वनं दिव्योपभोगवत् । आजगाम नदी 'सौम्या तीरजैर्बहुभिर्वृता ॥ ३१ ॥ दिव्योपभोगवत् वनमाजगामेत्यन्वयः । सौम्या नदी- जम्बूनदी ॥ ३१ ॥ 255 चतुश्शालानि शुभ्राणि शालाश्च गजवाजिनाम् । हर्म्यप्रासाद संबाधा: + तोरणानि शुभानि च ॥ ३२ ॥ सितमेघनिभं चापि राजवेश्म सुतोरणम् । 5 'शुक्लमाल्यकृताकारं दिव्यगन्धसमुक्षितम् || ३३ ॥ चतुरश्रं असम्बाधं ईशयनासनयानवत् । दिव्यैः सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् ॥ ३४ ॥ उपकल्पित सर्वानं धौतनिर्मलभाजनम् । || [क्लप्तसर्वासनं श्रीमत् स्वास्तीर्णशयनोत्तमम् ॥ ३५ ॥

  • इतरवृक्षाणामपि साधारणमित्यर्थः । + दिव्योपभोगवत् - दिव्योपभोगाई-गो.

+ तोरणानि-बन्धनमालाः, 'बन्धी बन्धनमाला तु तोरणं परिकीर्तितम्' इति इलायुधः - गो. § असम्बाधं-विशालम् । || 'बलप्तसर्वासनं' इत्यत्र, स्नान- भोजनाद्यासनान्युच्यन्ते । ‘शयनासन' इत्यत्र राजाऽऽसने तत्साहचर्यात् शयनं च महाशयनम् । ‘स्वास्तीर्णशयनोत्तमम्' इत्यत्र निद्रार्थशयनम् - गो. 1 इथ जम्बूश्च बभूवुः ङ. 2 भूषिताः-च. ३ दिव्या-ङ. दिव्य-ड. संयुक्त-व.