पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

252 भरद्वाजातिथ्यम्

  • शक्रं याश्योपतिष्ठन्ति ब्रह्माणं याश्च' योषितः ।

सर्वास्तुम्बुरुणा सार्ध आह्वये सपरिच्छदाः ॥ १८ ॥ सपरिच्छदाः- नृतगीताद्यपेक्षितपरिकरोपेताः ॥ १८॥ [अयोध्याकाण्ड: वनं कुरुषु यद्दिव्यं वासोभूषणपत्रवत् । दिव्यनारीफलं शश्वत् तत्कौबेरमिहैतु च ॥ १९ ॥ अथ चैत्रस्थवनाह्वानं- वनमित्यादि । कुरुषु - उत्तरकुरुषु वनं चैत्ररथाख्यं तच्चोत्तरकुरुदेशे वर्तते । दिव्यं - देवाईम्। दिव्यत्वमेव तस्य दर्शयति - वास इत्यादि । यद्वृत्तिवृक्षाणां वासोभूषणान्येव पत्राणि अस्मिन् सन्तीति वासोभूषणपत्रवत् । शश्वत् - सर्वदा दिव्यनार्य एव फलानि यस्मिन् तत् तथा । तथैवंभूतं यत् कौबेरमस्ति तत् इह-वने एतु - आगच्छतु । उत्तरदिक्पालत्वेन कुबेराधिष्ठितत्वात् कौबेरमित्युक्तम् । तद्देवताधिष्ठानादिदं वनं तथा भवत्वित्यर्थः । इयं च कुबेरं प्रत्येवोक्तिः। नदीनामिव वनस्याह्वानं तदधिष्ठातृदेवताद्वारा ॥ १९॥

  1. इह मे भगवान् सोमः विधत्तामन्नमुत्तमम् ।

मे च § भक्ष्यं भोज्यं च ' चोष्यं च लेह्यं च विविधं बहु ॥२०॥ || विचित्राणि च माल्यानि || पादपप्रच्युतानि च । सुरादीनि च पेयानि मांसानि विविधानि च ॥ २१ ॥ Q * शक्रं या उपतिष्ठन्ति - रम्भोर्वशीमेनकादयः । ब्रह्माणं-चतुर्मुखं ; तोकेऽप्य- प्सरसः सन्ति, 'तं पञ्चशतान्यप्सरसां प्रतिधावन्ति' इति श्रुतेः- गो. + भोगोप- करणान्याहूय भोगस्थानान्याह्वयति – वनमिति - गो. एवं कुबेरं प्रत्युक्ता अन्नपति चन्द्रं प्रत्याह – इहेति - गो. § भक्ष्यं – खाद्यमपृादि । भोज्यं — ओदनादि । चोष्यं -पायसादि । लेख-रसायनादि ॥ || मान्यानामपि स्वयंसिद्धत्वस्फोरणाय- पादपप्रच्युतानीति । 1 भामिनी: च. 2 पेबं-ङ,