पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९१ सर्ग:] स्वादु दिव्यं च सम्पन्न भक्ष्यभोज्यादिकं बहु 1

  • एवं समाधिना युक्तः तेजसा प्रतिमेन च ।

शीक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनिः ॥ २२ ॥ शीक्षति । शक्षिाप्रतिपाद्यवर्णोच्चारणलक्षणोपेतम्, व्याकरणोपदिश्यमानप्रकृतिप्रत्ययभाषास्वरोपेतं च तथा । एवं च तथा 6 ' एकः शब्दः सम्यक् ज्ञातः सुष्ठु प्रयुक्तः स्वर्गे लोके कामधुक् भवति' इति प्रसिद्धार्थः महर्षेस्तपोबलादिहैव सिद्धः यथाप्रयुक्तवचनमात्रादित्युक्तं भवति । अब्रवीदिति । प्रागुक्तदेवताऽऽह्वानवाक्यमित्यनुकर्षः ॥२२॥ 253 2 'मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः । आजग्मुस्तानि सर्वाणि दैवतानि पृथक् पृथक् ॥ २३ ॥ तानीति । आहूतदैवतानीत्यर्थः ॥ २३ ॥ मलयं दर्दुरं चैव ततः वेदनुदोऽनिलः । उपस्पृश्य चवौ युक्तथा सुप्रियात्मा शिवः सुखम् ॥ २४॥ मलयं दर्दुरं चैव-चन्दनपर्वतौ ! उपस्पृश्य - स्पृष्ट्वा । ततः- तस्मादारभ्य स्वेदनुहः, 'इगुपधे 'ति कः । स्वेदस्य नुदः स्वेदनुदः । युक्तया शैत्यसौरभ्यमान्द्यधर्मयोगेन । सुप्रियात्मा- सुप्रियस्वरूपः, अत एव शिवः - शुभः अनिलः सुखं ववौ ॥ २४ ॥

  • समाधिना – योगेन, तपसा – ज्ञानेन, यद्वा अनशनादिकायक्केशरूपेण । अत एव

तेजसा—अनागमने दण्डनसामर्थ्येन च युक्तः मुनि:- गो. + मलय: - चन्दनालय:, दर्दुर:- तत्समीपस्थ: चन्दनोत्पत्तिस्थानभूतो गिरिः । सुप्रियस्वभाव:, सुगन्ध इत्यर्थः, अत एव सुखः— सुखकरः, अस्पर्शेन- गो. तदुभयमुपस्पृश्य सुप्रियात्मा शिव:- शीतलः, युक्तथा – सुव्रतःच. तपसा-ङ. ३ स्पृश्याययौ ङ. युक्तः ङ.