पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

250 भरद्वाजातिथ्यम् [अयोध्याकाण्ड : परमर्षिणेति । श्रुतवलानानयनहेतुनेति शेषः । समुपागमं - समीपानयनमित्यर्थः ॥ १० ॥ 'अग्निशालां प्रविश्याथ पीत्वाऽपः परिमृज्य च । आतिथ्यस्य क्रियाहेतोः विश्वकर्माणमाह्वयत् ॥ ११ ॥ अपः पीत्वा परिमृज्येति । 'हृदयंगमाभिरद्भिः त्रिरोष्ठौ परिमृजेत् । सकृदुपस्पृशेत्' इत्युच्यमानरीत्या यथाविधि ब्राह्मं शुद्धा- चमनं कृत्वेत्यर्थः । क्रियाहेतोः – संपादननिमित्तम् । विश्वकर्मा- स्रष्टृमूर्तिभेदः ।। ११ ।। - आह्वये विश्वकर्माणं अहं त्वष्टारमेव च । आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ १२ ॥ आह्वयदित्युक्तं, तस्यैव प्रकार: – आह्वय इत्यादि । अह्नय इत्यात्मनेपदमपि । त्वष्टारं विश्वकर्माणमेव, तक्षणादिव्यापारोगेतं विश्व- कर्माणमेव, न तु 'संवत्सरो विश्वकर्मा । संवत्सरः प्रजापतिः' इति श्रुतौ, विश्वं— सर्वं जगत्कर्म यस्य स विश्वकर्मेति समग्रयोगप्रवृत्तविश्व- कर्मवाच्य भगवत्प्रजापतिरित्यर्थः । तत्र मे संविधीयतां – मदपेक्षितांतिथ्ये यत् त्वष्टृसाध्यं नानाविधगृहमपेक्षितं तत् तेन संविधीयताम् ॥ १२ ॥ + आह्वये लोकपालांस्त्रीन् देवान् 'शक्रमुखांस्तथा । आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ १३ ॥

  • अग्निशालाप्रत्रेशः पावनस्त्रार्थ:, देवतासन्निधानस्थलत्वात्- गो. + विश्वकर्मा

सर्वशिल्पकर्ता, त्वष्टा तु तक्षणेन गृहादिनिर्माता । यद्वा–स्वष्टारमेव चेत्यवधारणेन असुर विश्वकर्मा मयो व्यावर्त्यते-गो. + वक्ष्यमाणान्नानादिरक्षणाय लोकपालानाह्वयति - आह्वय इति । शकमुखान् इन्द्रधानान्, शकस्य पृथनिर्देशात्। त्रीन् लोकपालान्- यमवरुणकुबेरान् । देवानित्यग्न्यादय उच्यन्ते । संविधीयतां--पालनं क्रियताम्- गो. 1 अग्निमुखांस्तथा-ऊ. शक्रपुरोगमान्-च.