पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९१ सर्ग:]] ससैन्यो भरतस्तेनातिथ्याय व निमंत्रितः किमर्थ चापि निक्षिप्य दूरे बलमिहागतः । कस्मान्नेहोपयातोऽसि सबलः, पुरुषर्षभ ! ॥ ५ ॥ बलं दूरे निक्षिप्यागत इति । एकाकीति शेषः । अस्यैवार्थस्य व्यतिरेकमुखेन समर्पणं-कस्मान्नेत्यादि ॥ ५ ॥ भरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् । 'ससैन्यो नोपयातोऽस्मि, भगवन् ! *भगवद्भयात् ॥ ६ ॥ अथ केवलागमन कारणप्रश्ने तद्धेतुमाह - भरत इत्यादि । -- भगवद्भयादिति । भगवदाश्रमपीडाप्रसङ्ग भयादित्यर्थः ॥ ६ ॥ 249 2 राज्ञा च, भगवन् ! नित्यं राजपुत्रेण वा ' सदा । यत्नतः परिहर्तव्याः + विषयेषु तपस्विनः ॥ ७ ॥ भेतव्यमेव च क्षत्रियेणेत्याह-राज्ञेत्यादि । आश्रमेषु तद्वर्ति- वृक्षोदकादिबाघाप्रसङ्गनिमित्तं परिहर्तव्याः- अनुपरोध्या इत्यर्थः ॥ ७ ॥ - वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणाः । प्रच्छाद्य, भगवन् ! भूमिं महतीमनुयान्ति माम् ॥ ८ ॥ ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा । न हिंस्युरिति तेनाहं एक एव समागतः ॥ ९ ॥ आनीयतामितः सेनेत्याज्ञतः परमर्पिणा । ततस्तु चक्रे भरतः सेनायाः समुपागमम् ।। १० ।।

  • भगवद्भयात् – भवान् कुप्येदिति भयात्- गो. +राशा राजपुत्रेण वा

विषयेषु – स्वदेशेषु तपस्विनः सदा यवतः परिहर्तव्या:; तपस्विषु अपचारसंभावनाभीत्या तैः सदा जागरूकैर्भाव्यमिति भावः । 2 1 न सैन्येनो-च. तथा-च.