पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रामशयनादिप्रश्नः अकरोदिति । पानक्रियामिति शेषः ॥ १९ ॥ 273 PRF 80 सौमित्रिस्तु ततः पश्चात् अकरोत् स्वास्तरं शुभम् । स्वयमानीय बहींषि क्षिप्रं राघवकारणात् ॥ २० ॥ ततः पश्चादिति । सन्ध्यावन्दनानन्तरमित्यर्थः । बहींषि - दर्भान् ॥ २० ॥ 226 [अयोध्याकाण्ड: तस्मिन् समाविशत् रामः स्वास्तरे सह सीतया । प्रक्षाल्य च तयोः पादौ व्यपाक्रामत् स लक्ष्मणः ॥ व्यगक्रामदिति । शयनप्रदेशात् बहु दूरमिति शेषः ।

  • एतत्तदिङ्गुदीमूलं इदमेव च तत्तृणम्

1 यस्मिन् रामश्च सीता च रात्रिं तां शयितावुभौ ॥ + नियम्य पृष्ठे तु तलाङ्गुलित्रवान् शरैः सुपूर्णाविषुधी परंतपः । महद्धनुः सुज्यमुपोह्य लक्ष्मणः निशामतिष्ठत् 'परितोऽस्य केवलम् ।। २३ ।। १९ नियम्य - बद्धा | पृष्ठे - पश्चाद्भागे । तलयोः— करतलयोः अङ्गुलित्रमस्यास्तीति तथा । उपे. ह्य- धृत्वा ॥ २३ ॥

-- गुह: दूरे हस्तेन दर्शयन् वदति - एतदित्यादि । तत्समीपगमनं तु अनन्तरसर्गे कथ्यते । + पृष्ठे पश्चाद्भागे इधुवी- तूगीरद्वयं नियम्य बद्धा | शूराणां सव्यापसव्य- प्रयोगार्थं इषुधिद्वयधारणमस्ति। तलाङ्गुलित्रवान्–'तलं ज्याघातवारणम्' इत्यमरः- गो. एवञ्च करयो: ज्याघर्षणवारणं तलं, ज्याऽऽकर्षणपीढावारणं अङ्गुल्यो:-अनुलित्रं, तदुभयवानित्यर्थः । 1 अस्मिन् ङ. 2 त्वरितो-ङ. LOVAJANMAR