पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तदीयाः प्रत्यभिशाश्च सर्वैः सप्रेम वीक्षिताः • ततस्त्वहं चोत्तमबाणचापधृत् स्थितोऽभवं तत्र स तत्र लक्ष्मणः । अतन्द्रिभिः ज्ञातिभिः आत्तकार्मुकैः महेन्द्रकल्पं परिपालयं तदा ॥ २४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे सप्ताशीतितमः सर्गः ८८ सर्ग:] 6 1 परिपालयं – पर्यपालयमिति यावत् । वीर (२४)मानः सर्गः ॥ - इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे सप्ताशीतितमः सर्गः अष्टाशीतितमः सर्गः [रामराय्यादिवीक्षणम् ] ★ तच्छ्रुत्वा II * निपुणं सर्वं भरतः सह मन्त्रिभिः । इनुदीमूलमागम्य रामशय्या मवेक्ष्य ताम् ।। १ ।। एवं गुहात् रामशयनस्थलादिकमवगत्य ताश्च जननीभ्यः प्रदर्य बहु विलप्य रामकर्तव्यं व्रतं स्वयं कर्तुमध्यवस्यति । तच्छ्रुत्वेत्यादि । अब्रवीजननीः सर्वाः, इह तेन महात्मना । शर्वरी शयिता भूमौ इदमस्य विमर्दितम् || २ || 'शर्वरी शयिता' इति निष्ठयाऽधिकरणस्याभिहितत्वात् इदमेषामासितं' इतिवत् शर्वरीशब्दात् प्रथमा, शर्वर्यां शयनक्रियाऽ- भूदित्यर्थः । इदमस्य विमर्दितमित्यत्राप्यधिकरणे निष्ठा । ‘क्तस्य 227 ★ निपुणं- सावधानमित्यर्थः-गो. 1 परिपालयंस्तदा-ङ.. 2 सर्वेक्षत-ङ. 15*