पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८७ सर्ग:]]] गुह: प्रोवाच रामस्य पुण्यां वृत्ति सुसंयताम् प्रत्यनुज्ञासीत् - मदनुग्रहार्थं केवलपङ्गीचकार । क्षत्रधर्म- दानमेव क्षत्रियस्य, न त्वादानमिति न हि तत् प्रत्यगृह्णात्- अभ्यवहाराय न स्वीकृतवान् ।। १६ ।। 1198 स्मरन् न ह्यस्माभिः प्रतिग्राह्यं, सखे ! देयं तु सर्वदा । इति तेन वयं, 'राजन् ! अनुनीता महात्मना ।। १७ ।। स एव उक्तधर्म: विव्रियते-न ह्यस्म/भिरित्यादि । यद्येवं कथमृषिभ्यो भरद्वाजादिभ्यः पूजां प्रतिगृह्यते ? न्याय्यत्वादेव । गोमधुपर्कादिना राजा ब्राह्मणेन पूजनीयः । सा च पूजा राज्ञा अभ्युदयाय ग्राह्या । यथान्यायप्राप्तः षड्भागः करः स्वदेशात् । गुहस्तु निषादः, नास्मात् पूजा ग्राह्या; यथाविधिपूजानधिकारात् । नापि करत्वेन, अस्वदेशत्वात् * ॥ १७ ॥ 225 लक्ष्मणेन समानीतं पीत्वा वारि महायशाः । 2 औपवास्यं तदाऽकार्षीत् राघवः सह सीतया ॥ १८ ॥ 'औपवास्यं तूपवासः', वार्थिकः प्यञ् ॥ १८ ॥ ततस्तु जलशेषेण लक्ष्मणोऽप्यकरोत्तदा । वाग्यतास्ते त्रयः सन्ध्यां समुपासत संहिताः ।। १९ ।। + -

  • यद्यपि गुहस्य तत्त्वज्ञत्वेन अस्त्येव भगवत्पूजाधिकार, तथाऽपि व्रतस्थत्वात्तद-

भोजनमिति तत्त्वम् - ति. + ननु पूर्व पुरोवादे 'ततश्चीरोत्तर/सङ्गः सन्ध्यामन्वास्य पश्चिमाम् । जलमेवाददे भोज्य लक्ष्मणेनाहृतं स्वयम् ' इत्युक्तम् । कथमत्रानुवादे प्रथमं जलादानं पश्चात्सन्ध्योपासनं चोच्यते – सत्यम् — तथैव क्रमः । इह तु गुहानीतान्नानी- कारे 'किं भुक्तवान् राम: ? 'इत्याकाङ्क्षायां लक्ष्मणेन यद्वार्यानीतं तस्पीतं इति प्रसङ्ग सङ्गत्या जलपानं प्रथममुक्ता अथ सन्ध्योपासनमुक्तमिति न दोषः- गो.

  • संहिता: - सहिता इति वा ।

1 सबें-ङ, 2 उपवास- ङ. RAMAYANA - VOL. III 15