पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

224 [अयोध्याकाण्ड: रामशयनादिप्रश्नः 1915 स मुहूर्त समाश्वस्य रुदन्नेव महायशाः । कौसल्यां परिसान्त्व्येदं गुहं वचनमब्रवीत् ॥ १२ ॥ स मुहूर्त समाश्वस्य ' इति । मुहूर्त विसंज्ञः पश्चात् समाश्वास्ये- त्यर्थः । कौसल्यां परिसान्त्येति 6 1 न मे रोगः, नापि भ्रात्रोरपायः । 6

अपि तु तयोः जटाघारणं श्रुत्वा तद्दुःखेन मूर्छितोऽस्मि' इत्युक्तेत्यर्थः ॥ भ्राता मे क्वावसद्रात्रौ क्व सीता क्व च लक्ष्मण : १ अस्वपच्छयने कस्मिन् किं भुक्ता, गुह ! शंस मे ॥ १३ ॥ सोऽब्रवीत् भरतं हृष्ट: * निषादाधिपतिर्गुहः । यद्विधं प्रतिपेदे च रामे प्रियहितेऽतिथौ ॥ १४ ॥ हृष्ट इति । लक्ष्मणवत् परिपूर्णभ्रातृभक्तिदर्शनेन सन्तुष्टः । रामे भरतविमतिशङ्काहीनश्चेत्यर्थः । यद्विधं- यद्यत्प्रकारकं व्यवहारं रामे प्रियहितेऽतिथौ प्रतिपेदे-प्राप्तवान् तमब्रवीदित्यन्वयः ॥ १४ ॥ अन्नमुच्चावचं 'भक्षाः फलानि विविधानि च । रामायाभ्यवहारार्थं 'बहु चोपहृतं मया ।। १५ ।। वचनप्रकार:- अन्नमित्यादि ।। १५ ।। तत्सर्वं । प्रत्यनुज्ञासीत् रामः सत्यपराक्रमः । न हि तत् प्रत्यगृह्णात् सः क्षत्रधर्ममनुस्मरन् || १६ ।। हृष्टः — रामवृत्तान्तकीर्तनस्यावकाशो लब्ध इति सञ्जातहर्ष:-गो. + प्रत्यनु- शासीत् - प्रत्य-वशासीत् -- पुननीयतामित्यनुज्ञातवान् । अत्र हीनजातिपरिग्रहत्वात् तत्प्रत्याख्यानं, ऋषिभ्यस्तु स्वीकरिष्यतीत्याहुः- गो. इदमत्रावधेयम् –अत्र 'क्षत्रधर्म- मनुस्मरन्' इत्यायुक्तिः गुहस्यैव । तत्र तु (50 सर्गे) 'स्वागतं ते महाबाहो ! तत्रेयमखिला मही' (38) 'भक्ष्यं भोज्यं च पेयं च लेह्यं चेदमुपस्थितम् । शयनानि च मुख्यानि ' (40) इत्यादिगुहकृतराजोपचारं शृण्वन् हि राम: ' सर्व तदनुजानामि न हि वर्ते प्रतिग्रहे। कुशची राजिनघरं फलमूलाशिनं च माम् । विद्धि प्रणिहितं धर्मे तापसं वनगोचरम् (44) इत्येवाइ ॥ भक्ष्य-रु. बहुशोधा-ङ.. प्रत्यनुशाप्य-ड..